SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८८ शब्दकौस्तुनः । [ १० दस्यपण्यामिति उकि तस्येकादेशे यस्येति चेत्यल्लोपे कृते इ. सामुक्तान्तादिति कादेशोः न भविष्यति । अनल्विधाविति निषेधेन स्थानिवद्भाषासम्भवात् । ठस्येक इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्यतया वर्णमात्रस्य स्थानित्वात्। अस्तु वा स्थान्यादेशयोरकारस्यः विवक्षा । न चैवमनल्बिाधित्वाकादेशप्रसङ्गः। सन्निपातपरिभाषया समाधानात् । न चापीपचत्रित्युदाहरणम् । इह हि अन्तेरकारस्य चकारस्य चातोगुण इति पररूपत्वे तस्य परं प्रत्यादिवद्रावाज्निग्रहणेन ग्रहणे सति सिअभ्यस्तेति जुस् प्राप्तः। णिलोपस्यैकादेशस्य वा स्थानिवद्भावाम भवतीति वाच्यम् । वेत्तेहि लन्येवानन्तरो शिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झे विधानात् । न च सिचा साहचर्याल्लुङोपि ग्रहणमस्त्विति वाच्यम् । विप्रतिषेधेपरमिति परसाहचर्यस्य बलीयस्त्वादिति । अत एव भबतेर्यङ्लुङन्ताल्लुङि अबोभूवमिति माधवः । पंचमीसमासप्रयोजनतया अपीपचबित्युदाहरतो भगवतस्तु नेह साहचर्य नियामकतया सम्मतम् । कृत्वोर्थग्रहणादि सापकात्साहचर्य न सघेत्राश्रीयतइत्युक्तं दीधीवेवीटामिति सूत्रे । तस्माद्यलुकि भुवो लुछि जुसेवोचितः । आत इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्याप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात्।अम्यस्ताश्रयस्य जुसो दारत्वात् । यदि तु लापवादात इति नियमः सामान्यापेक्षस्तदा जुसभावे ऽदभ्यस्तादित्यत्, तथा चाबोभूनुरबोभूवदिति पक्षभेदेनरूपद्वयं लभ्यते। नित्यत्वन को गुणवाधकत्वात् । माधवोदासहतमबोभूवमिति तु चिन्त्यमेव । अन्त्यादेशस्य दुर्लभत्वात् । अपीपचमित्येतत्सिद्धये च पञ्चमीसमास आश्रयणीयः । विगनय्यस्यादावतिमसास्य तु पूर्वोक्ता एवोद्धाराः स्मर्तव्या इति
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy