________________
१ पा. ८ आ.
शब्दः 1
२८७
तावदनिड्व्यावृत्यर्थम् । णिजन्तात्तदसम्भवात् । ननु संज्ञापितः पशुरित्यत्र यस्यविभाषेतीनिषेधः सम्भवत्येव । सनीवन्तेति विकल्पितेकत्वादिति चेत् । न । यस्यविभाषेत्यत्रैकाच इत्यनुवृत्तेः । अन्यथा दरिद्रित इतीन्न स्यात् । तस्मात्कालावधारणार्थं सेइग्रहणम् । इटि कृते णिलोपो न तु ततः प्राणिति । अन्यथा कारितमित्यादौ णिलोपे कृते एकाच उपदेशइतनिषेधः स्यादिति सेटीति बदतो भावः । पूर्वस्माद्विधौ स्थानिवत्त्वे तु न प्राप्त एव निषेधः । णिचा व्यवधानात् । तस्मात्सेग्रहणमनित्यतां ज्ञापयतीति स्थितम् । तथा चाष्टमे अन्त इति सूत्रे हरदत्तः । अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः । निष्ठायां सेटीति सेग्रहणात् । एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातामिति । यद्यपी प्रकरणे स्वयं न व्याख्यातं तथापि न्यासकारादिभिर्व्याख्यातमिति तद्भन्थस्यार्थः । लेखकप्रमादाद्रन्थभ्रंशो वा कल्प्यः । एतेन ओः पुयणिति सूत्रे यदत्र वक्तव्यं तद् द्विर्वचनेचीत्यत्रैवोक्तमित्यपि हरदत्तग्रन्थो व्याख्यातः । तथा च वस्वेकाच्सूत्रे कैटः । पूर्वस्मादपिविधावित्येतदनित्यमिति । माधवाचार्यास्तु । परिव्रढय्य गत इत्यत्रासिद्धतामुद्भाव्य व्याथयत्वात्तां परिहृत्य पूर्वस्मादपीति स्थानिवत्त्वमाशंक्य प्रवेभिदय्य प्रस्तनय्येत्यादिभाष्योदाहरणबलेन समादधुः । यद्वा । ल्यपि - लघुपूर्वादित्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्व्यवधानेपि न दोष इति । केचित पंचमीसमास इह मास्तु । प्रयोजनाभावात् । तथाहि । वेभिदिता, माथितिकः, अपीपचमिति प्रयोजनत्रयं भाष्ये उक्तम् । तत्र बेभिदितेति तावदन्यथासिद्धम् । एकाचउपदेशइत्यत्र विहितविशेषणाश्रयणात् । माथितिकति मायतं पण्यमस्येति विग्रहे त