SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १पा. ३ आ. शब्दकौस्तुमः । कथं तर्हि घिनुतः कृणुत इत्यादावतो लोप इति चेतासन्नियोगशिष्टतया उप्रत्ययोपदेशवेलायामेवाकारस्यापि बुद्धयारोहादिति के चि अन्ये तु धिन्विकृण्व्योरचति सौत्रक्रमानुरोधात्पथममकारादेशस्तदनन्तरं चशब्दाकृष्ट उप्रत्यय इति नोक्तदोष इत्याहुः। नन्वेवं सामगायेत्यादावेकादेशस्य पूर्वान्तत्वेन ग्रहणादातोधातोरित्यालोपः स्यादिति चेत् । अत्र कैयटः । अकारमाश्रित्य कृतो यशब्दः सनिपातपरिभाषया लोपं न प्रवर्त्तयति । दीर्घत्वं तु कष्टायति निपातनाद्भवतीत्येओसूत्रे स्थित्वा समाहितवान् । तस्यायमा. शयः । यादेशे हि इस्वत्वविशिष्टमत्वं प्रयोजकम् । तद्विधावत इत्यनुवृत्तेः । तत्र यद्यपि दीर्घण इस्वत्वांशो निवर्तितस्तथाप्यत्वमात्रमादेशप्यनुवर्तते । तदपि चेल्लोपेन निवत्येत तर्हि परिभाषाविरोधः । दीर्घाशे परं ज्ञापकात्परिभाषा बाध्यते । न चैवमंशान्तरेपि तहाधोस्त्विति वाच्यम् । तदबाधेप्युपपत्तेः । प्रकृतसूत्रे एओसूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाष्यकारश्चात्र प्रमाणम् । एतेन शुभंयाशब्दस्य नपुंसके इस्वत्वे - यादेशे दीर्घ च सत्यातोधातोरित्यालोपे च शुभंय्य इत्यादि माधवोदाहृतं भाष्यविरोधाचिन्त्यम् । अत एव नपुंसके श्रीपं ज्ञानवदिति ग्रन्थं श्रीगयेतिरूपपरनया यथाश्रुतमेष समञ्जसं भक्त्वा माधवानुरोधेन प्रायेण ज्ञानवदिति व्याचक्षाणा अपि प्रत्युक्ताः । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति । इतरथा हि एकारमेवोपदिशेत् । मात्रालाघवविरहेपि प्रक्रियालाघवसत्त्वात् । न चैवमायादेशोपि न स्यादिति वाच्यम् । यं विधि प्रत्युपदेशो ऽनर्थकः स विधि - ध्यते यस्य तु विनिमित्तमेव नासौ बाध्यतइति न्यायात् ।। -गुणं प्रति किारोपदेशो ऽनर्थकः । ग्ले इत्यस्यापि सुपठत्वात्।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy