SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५४२ शब्दकौस्तुभः । [१ अ० लाक्षणिकी । ननु उभयं मुख्यमस्तु परंपरासम्बन्धस्तु संसर्गः। मैवम् । कारकविभक्त्यर्थानां प्रकृत्यर्थे साक्षात्सम्बन्धेन विशेप्यतायाः व्युत्पनत्वात् । अपादानप्रकरणोक्तानि च बहून्युदाहरणानि तमग्रहणस्य प्रयोजनानीति बोध्यम् ॥ दिवः कर्म च ॥ दिवः साधकतमं कर्मसंज्ञं स्यात्, चकारात्करणसंबम् । करणशब्दानुवृत्त्या वक्ष्यमाणस्यान्यतरस्यांग्रहणस्याकर्षणेन वा संज्ञयोः पर्याये लब्धेसमावेशार्थश्चकारः । तेन मनसा दीव्यतीति मनसा देव इत्यत्र कर्मण्यण् करणे तु. तीया चेत्युभयं सिध्यति । मनसः संज्ञायामित्यलुक् । किञ्च अक्षैर्देवयते यज्ञदतेनेत्यत्र सकर्मकत्वादणि कर्तुौँ कर्मत्वं न । अणावकर्मकादिति परस्मैपदं च नेति दिक् । स्यादेतत् । यदि समावेशः, तर्हि अक्षान् दीव्यतीत्यत्र परत्वात्तृतीया स्यात् । तथाहि । करणसंज्ञाया अवकाशः देवना अक्षाः। करणे ल्युट् । कर्मसंज्ञाया अवकाशः । दीव्यन्ते अक्षाः । भावकर्मणोरिति यगात्मनेपदे । अक्षानित्यत्र सूभयसंज्ञाप्रयुक्तकार्यप्रसङ्गे परत्वातृतीयैव प्राप्नोति । अत्राहुः । कार्यकालपक्षे कर्मणि द्वितीयेत्यत्र पदस्योपस्थानं तस्यानवकाशत्वात् द्वितीयेति । ननु दीव्यन्ते अक्षा इत्यत्र कर्मण्यभिहितेपि करणत्वस्यानभिधा. नातृतीया स्यात् । तथा देवना अक्षा इति ल्युटा करणस्याभिः धानेपि कर्मणोनभिधानात् द्वितीया स्यात् । मैवम् । एकैव ह्यत्र शक्तिः संज्ञाद्वययोगिनी । तथा चोभयत्राप्यभिधानमेव न त्वनभिहितत्वम् ।।... ... ... . . . . . . . . . परिक्रयणे सम्पदानमन्यतरस्याम् ॥ नियतकालं वेतनादिना स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सम्प्रदानसंझं वा स्यात् । शताय शतेन वा परिक्रीतः। परिशब्दः सामीप्यं
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy