________________
४ पा. ३ आ.
शब्द कौस्तुभः ।
५४१
शायां प्राप्तायां देवदत्तेन प्रतिशृणोतीति प्रयोगनिवृत्तये वचनम् । विवक्षान्तरे तु देवदत्तो गां प्रतिश्रावयतीति भवत्येवेति हरदत्तः | अत्रेदं चिन्त्यम् । उक्तरीत्या देवदत्तो रोचयति मोदकमित्यपि प्रयोगो दुर्वारः । न चेष्टापत्तिः । तत्रत्यस्वग्रन्थेन लाराजग्रन्थेन च विरोधात्तत्र हेतुत्वबाधान्न णिजिति यदि ताईं प्रकृतेपि तुल्यम् । तस्मादिह वैषम्यं दुर्वचमिति ॥
अनुमतिगृणश्च ।। अनुपूर्वस्य मतिपूर्वस्य गृणातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात् । अनुमतिभ्यां गृणाः अनुमति - गृणाः तस्येति विग्रहः । अनुमतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते तत्र पूर्वो व्यापारः शंसनम् । होत्रे अनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति तमध्वर्युः अथामादेवेत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः ॥
I
साधकतमं करणम् ॥ क्रियायां प्रकृष्टोपकारकं करणसंज्ञं स्यात् । यद्व्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम् । उक्तञ्च। क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतमिति । काष्ठैः पचति । विवक्ष्यतइत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम् । आह च, वस्तुतस्तदनिर्देश्यं न हि वस्तुव्यवस्थितम् । स्थाल्यापच्यतइत्येषा विवक्षा दृश्यते यतः । ननु कारकाधिकारादेव सिद्धे साधकस्वे पुनः श्रुतिः प्रकर्षार्थास्तु किं तमपा, सत्यम् । अस्मिन्प्रकरणे सामर्थ्य गम्यप्रकर्षो नाश्रीयतइति ज्ञापयितुं तमप् । तेन गङ्गायां घोष इति सिद्धम् । यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनं । यदा तु गंगाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम् । तत्राद्ये विभक्तिलक्षणिकी । सुब्विभक्तौ न लक्षणेति तु येनविधिरिति सूत्रएव निराकृतम् । द्वितीये तु प्रकृति