________________
५४०
शब्दकौस्तुभः । [१ अ० मार्ण्यति । मैनामन्योद्राक्षीदिति । नात्र भार्याम्पति कोपः किन्तु परैदृश्यमानां तां न क्षमतइत्येव । क्रुधद्रुहोरकर्मकतया कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठयां प्राप्तायां वच. नम् । इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम् ॥ - क्रुधबुहोरुपसृष्टयोः कर्म ॥ सोपसर्गयोरनयोर्य प्रति कोपस्तकारकं कर्मसंज्ञं स्यात् । पूर्वसूत्रापवादः । देवदत्तमभिक्रुध्यति अभिद्रुह्यति ॥ . राधीक्ष्योर्यस्य विप्रश्नः ॥ एतयोः कारकं सम्प्रदानसंज्ञं स्यात् । यदीयो विविधः प्रभः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः । शुभाशुभपर्यालोचनमिह धात्वर्थः । शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मकावेतौ । षष्ठयां प्राप्तायां वचनम् । अत एव राध्यतीति श्यन् । अकर्मकादेव तद्विधानात् । तथा च दिवाधन्तर्गणसूत्रं राधोकर्मकावृद्धावेवेति । अस्यार्थः । एवकारो भिन्नक्रमः। राघोकर्मकादेव । यथा वृद्धाविति। अत एव कर्मवत् कमणेति मूत्रे राध्यत्योदनः स्वयमेवेति भाष्यं सङ्गच्छते । तत्र हि सिध्यतीत्यर्थः। एतेन न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । क्रियासमभिहारेण विराध्यन्तं क्षमेत क इति माघप्रयोगौ व्याख्यातौ । एतेनैतयोः कर्मकारकं सम्पदानं स्यादिति व्याचक्षाणाः परास्ताः । यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेटसिद्धेः ॥ . प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता प्रतिपूर्व आपूर्वश्च शृणोतिरभ्युपगमे वर्तते तस्य पूर्वो व्यापार प्रवर्तनक्रिया तस्याः कर्ता सम्पदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा विप्रेण मद्यगां देहीति प्रवर्तितः प्रतिजानीतइत्यर्थः । हेतुसं