________________
२१२ . शब्दकौस्तुभः । [१ अ. प्रयोजनाभावाद्वा । अन्यो भिन्नः । अन्यतरान्यतमशब्दावव्युत्पनौ स्वभावात् द्विबहुविषये निर्धारणे वर्तते इति पस्पशायां कैयटः । । तत्रान्यतमशब्दस्य गणे पाठाभावान सर्वनामकार्यम् । नाप्यतरादिभ्य इत्याधन्तर्गणकार्यम् । तथा च प्रयुज्यते न तावत्सामान्यादिष्वन्यतमं तम इति । शाकटायनस्त्वन्यतरान्यतमौ इतरडतमान्तौ व्युत्पादितवान् । तन्मतेप्य न्यतरशब्दपाठस्य नियमार्थत्वादन्यतमशब्दोन्तर्गणकार्य सर्वनामसंज्ञाकार्य च न लभ्यतइति तयाख्यातारः । इत. रस्त्वन्यनीचयोरित्यमरः । त्व त्व इति द्वावप्यदन्तावन्यपर्यायौ, तत्रैक उदात्तः परो ऽनुदात्तः। एतं त्वं मन्ये दश पुत्रमुत्समित्युदात्तस्य प्रयोगः । उत त्वः पश्यनित्यादिरनुदात्तस्येति 'विवेकः । के चित्तु त्वदिति तान्तमेकं पठन्ति । तथा च जयदेवः प्रायुंक्त । त्वदधरमधुरमधूनि पिबन्तमिति । त्वत्तोन्यस्या अधर इति षष्ठीतत्पुरुषो न तु तवाधरस्त्वदधर इति । पश्यति दिशिदिशि रहसि भवन्तमिति पूर्ववाक्येन सहानन्ययापत्तेः।अनुदात्तश्चायम्।त्वत्वसमसिमेत्यनुच्चानीति फिदसूत्रात् । तथा च प्रयुज्यते स्तरीरुत्वद्भवति सूत उत्वादिति । त्वदिति सर्वनाम पठितोनुदात्तोयमन्यपर्याय इति तद्व्याख्यायां वेदभाष्यकाराः । इह मागुक्तरीत्योदात्तानुदात्तयोरकारान्त. योरनुदात्तस्य तकारान्तस्य च प्रामाणिकत्वं निर्विवादमेव । गणपाठे परं विप्रतिपत्तिः । तत्राप्यनुदात्तस्याकारान्तस्य ग"णपाठे न संशयः । उतो त्वस्मै तन्वमित्यादिप्रयोगात् । अवशिष्टयोर्मध्ये कतरस्य गणे पाठ इति तु संशयोदात्तप्रयोगाणां तत्रौदासीन्यात् । तस्मात्तान्तस्याकजादिकमुदात्तस्य वा स्मायादिकं क्वचिच्छाखायां प्रयुज्यते नवेति विभा.