________________
१ पा.६ आ. शब्दकौस्तुमः। व्य तत्वं निर्णेयं बहुश्रुतरिति दिक् । वस्तुतस्त्वाद्यस्य तान्तच्छेद एव युक्तः । अन्यथा ऐक्ष्वाकशब्द इव स्वरसर्वना म्ना एकश्रुत्योभयसङ्ग्रहसम्भवावशब्दमेकमेवापठिष्यदिति ध्येयम् । त्वे वसूनि त्वे राय इत्यादयस्तु शेपत्ययान्तस्य युष्मदः प्रयोगो न तु त्वशब्दस्य। पदकारैः प्रगृह्यत्वप्रयुक्तस्येति शब्दस्य प्रयोगादिति स्थितं वेदभाष्ये । नेम इत्य प्रयोगश्व, प्रनेमस्मिन्ददृशे सोम इति । समः सर्वपर्यायः । नभन्ता. मन्यके समे । मानोवृकायवृक्येसमस्मै । उरुष्याणो अवायत: समस्मात् । उतोसमस्मिन् । तुल्यपयोयस्य तु समशब्दस्य न सर्वनामता । यथासंख्यमनुदेशः समानामिति ज्ञापकात् । कृन्मेजन्त इति सूत्रे एते दोषाःसमा भूयांसो वति भाष्यकारप्रयोगाच । एतेन समे यजतोत प्रयोगो व्याख्यातः । सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोरिति निघण्टुः । आद्रात्रीवासस्तनुते सिमस्मै । उच्छुक्रमकमजते सिमस्मात् । यद्यपीह त्वस्वसमसिमेत्यनुच्चानाति प्राप्तं तथापि सिमस्याथर्वणेन्त उदात्त इत्युदात्तता । अथर्ववेदप्रविष्टे मन्त्रे ऋग्वेदादिगतेपीत्यभियुक्तव्याख्यातत्वादित्यवधेयम्।पूर्वपरावरोत्तरापराःपंचदिक्कालयोस्तदवच्छिन्ने च । पूर्वस्यां दिशि पूर्वस्मिन्काले पूर्वस्यां वाप्याम् पूर्वस्मिन्गुरावित्यादि । दक्षिणाधरशब्दौ दिशि तदवच्छि. ने च । अर्थनियमचायं व्यवस्थायामित्युक्तेर्गम्यते । स्वाभिधेयेनापेक्ष्यमाणस्यावधेनियमो हि व्यवस्था । पूर्वादिशब्दानामुक्तोर्थो हि नियमेन कं चिदवधिमपेक्षते । स्थागापापचो भावइति क्तिनि प्राप्ते ऽत एव निपातनादङ् । व्यवस्थायां किम् । दक्षिणा गाथकाः । प्रवीणा इत्यर्थः । अधरे ताम्बूलरागः उत्तरे प्रत्युत्तरे वा शक्तः । कथं तार्ह तथा परेषां युधि चति कालिदासः ।