SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १ पा. ६: आ. शब्दकौस्तुमः। २११ म् । तत्र मात्रजिति मात्रशब्दात्मभूत्ययचश्वकारेण प्रत्याहारग्रहणात् । एवं च तयग्रहणमपि न तत्र कार्यम् । यद्वा द्वयसजिति प्रत्याहारः। तथा च दनज्मात्रचोरपि ग्रहणं न कर्तव्यमिति महदेव लाघवम् । वस्तुतस्तु प्रमाणे मात्रच्यसच्दघ्नच इति पाठ्यमिति भाष्याशयः । तथा च ततोपि लाघवम् । न चैवं कति स्त्रिय इत्यत्रातिप्रसङ्गः । अत इत्यनुः वृत्तेः, न षस्वस्रादिभ्य इति निषेधाद्वा । न चैवं तैलमांत्रेत्यादावतिप्रसङ्गः । सदृशस्याप्यस्य प्रत्याहारे ऽसन्निविष्टत्वादिति । अत्र कश्चित् । उभयेत्यर्थपरो निर्देशः । तेन व्यर्थी द्वयेषामपि मेदिनीभृतामिति माघप्रयोगः समर्थितो भवतीत्याह । तन्न । अर्थपरतायां वृत्तिकाराघभियुक्तवचनानुपलम्भात् । महाकविप्रयोगवलादेव कल्प्यतइति चेत् । न । महाकविभिरेव तद्विपरीतस्य बहुशः प्रयोगात् । तथा च माघः । गुरुदयाय गुरुणोरिति । कालिदासोपि । अस्मिन् द्वये रूपविधानयत्न इति । श्रीहर्षश्च । अये ममोदासितमेव जिव्हया द्वयपि तस्मिन नतिप्रयोजन इति । तस्माद् द्वयं द्वैधमिष्यन्ति गच्छन्तीति द्वयेषस्तेषां द्वयेषामितीषेः किवन्तस्य रूपं बोध्यम् । यत्तु कश्चिदाह । चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामताभ्युपगमात्तद्रीत्याय प्रयोग इति । तदपि न । मुनित्रयमतेनेदानी साध्वसाधुविभागस्तस्यैवेदानींतनशिष्टर्वेदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरस्मूतिरित्यादीति शताच्च ठन्यतावशतइति सूत्रे सर्वैकवाक्यतया सिद्धान्तितत्वात् । डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति तथापीह प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वाचनिकस्तदन्तविधिः केवलयोः संज्ञाया:
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy