________________
२१००
शब्दकौस्तुभः ।
। १ अ० युक्तम् । गणएवान्तोदात्तस्य निपात्यमानत्वात् । अन्यथोमे भद्रे जोषयेते,उभाउ नूनम् । उभाभ्यां देव सविता,सपत्यतउभयोन॒म्णमयो,रित्यादावादात्तप्रसङ्गात् । उभयशब्दस्त्ववयवदयारब्धे ऽवयविनि वर्तते उभयो मणिरिति यथा, श्यामलोहिताभ्यामवयवाभ्यामारब्ध इत्यर्थः। तिरोहितावयवभेदत्वादेकवचनम् । उभयमेव वदन्ति मनीषिण इत्यादौ तु समुदायद्वयघटित: समुदायोर्थः । तिरोहितावयवभेदत्वं तु तुल्यमेव । यदा तु वर्गद्वयारब्धे महासमुदाये वर्तते तदा वय॑भिन्न वर्गद्वयन महाभेदविवक्षयोद्भूतावयवभेदत्वादहुवचनान्त एव,उभये देवमनुष्याः। तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपा इति यथा । यदा तु मागुक्तरीत्योभयो मणिरिति व्युत्पाद्य तादृशमेव मणिद्वयं सह विवक्ष्यते । तदैकशेषेण द्विवचनं प्राप्नोति । अनभिधानात्त न भवति । तथा च तद्धितश्चासर्वविभक्तिरिति सूत्रे कृत्तद्धितानां ग्रहणं च पाठइति भाष्यमवतारयन्कैयट आह । उभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वमिति । हरदत्तस्तु तस्मिन्नेव सूत्रे उभयशब्दाद द्विवचनमंगीकृत्य पाठाश्रयणं तु पचतिकल्पं पचतिरूपमित्यादावतिप्रसंग वारयितुमित्याह । इहायजादेशस्य स्थानिवद्भावेन तयपत्ययान्ततया प्रथमचरमेति सूत्रेण जसि विभाषा प्राप्नोति व्यवस्थितविभाषया पूर्वविप्रतिषेधेन का नित्यमेव जसि सर्वनामतेति के चित् । विभक्तिनिरपेक्षत्वेनान्तरङ्गया नित्यसंज्ञया बहिरङ्गा वैकल्पिकी बाध्यतइति तु सिद्धान्तः । न वेति विभाषति सूत्रे भाध्यकारस्त्वाह । अयच् प्रत्ययान्तरमेव न त्वसौ तयस्यादेश उ. भानुदास इति सूत्रे तयपो ऽननुत्तेः । न चैवमुभयीत्यत्र टि. ड्ढाणनिति सूत्रेण तयबन्तत्वप्रयुक्तो डीप् न स्यादिति वाच्य