________________
१ पा. ६ आ.
शब्दकौस्तुभः ।
कार इत्यत्रानुदात्तादेरव् सिद्धः स धनुदात्तादिप्रकृतिकाद्विधीयतइति ङयापसूत्रे भाष्ये स्थितं, प्रयोगे तु सर्वस्य सुपीत्यादात्त एव । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । यद्येवं तर्हि किमर्थमसौ सर्वादिषु पठ्यते । न ह्यत्र स्मायादयः सम्भवन्ति । काकचोस्तु नास्ति रूपे स्वरे : वा विशेषः । अवग्रहस्तु कप्रत्ययेपि पदकारैर्न क्रियते, चित्र इद्राजा राजका इदन्यके इत्यादौ तथैव निर्णीतत्वात् । न चोभाभ्यां हेतुभ्यामुभयोर्हेत्वोरित्यत्र सर्वनाम्नस्तृतीयाचेति पाक्षिकतृतीयासिद्ध्यर्थ इहपाठ इति वाच्यम् । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वार्तिकेन गतार्थत्वात् । न च वृत्तिकृता सर्वनामनस्तृतीया चेति सूत्रे पठितत्वादिदं वार्त्तिकमपि सर्वनामसंज्ञासापेक्षमेत्रेति वाच्यम् । भाष्ये हेताविति सूत्रे तस्य पठितत्वात् । अत एवान्नेन कारणेन वसत्यन्नस्य कारणस्येत्युदाहृतं हरदत्तेन । अत्रोच्यते । उभशब्दस्तावद् द्विवचनमात्रविषयः । वृत्तौ तु द्विवच-नलोपाभासौ प्रज्युयते । उभाभ्यां पक्षाभ्यां विनीतनिद्रा इति विग्रहे उभयपक्षेत्यादिप्रयोगदर्शनात् । कथं तर्हि उभस्थाने उभ यशब्दसिद्धिरिति चेत् । इत्थम् । उभादुदात्तो नित्यमित्यत्रोभादिति योगो विभज्यते । अवयववृत्तेः संख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् उभयोमणिः । ततो नित्यम् । उभशब्दावृत्तिविषये नित्यमयच् स्यात् । अनिर्दिष्टार्थत्वात्स्वार्थे | तदेतदुक्तं वार्त्तिककृता उभयोन्यत्रेति । एवं स्थिते उभयत उभयत्यादाविव कप्रत्ययेप्युभय एव प्राप्तः । अकचि तूभकावित्यादि सिद्धयति । न चेहाप्युभयइति स्यादेवेति वाच्यम् । अकजये सर्वादिषु पाठेनायचो बाधात्, अन्यथा पाठवैयर्थ्यापत्तेरिति दिक् । स्वाङ्गशिटामदन्तानामित्याद्युदात्तार्थं पाठ इति तु न
1
.
२७
२०९