SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १ पा. ६ आ. शब्दकौस्तुभः २२३ अव्ययं निपाता इति । किन्तु प्रामीश्वरानिपाता इति वा अन्ययानीति वा सूत्र्यताम् । ततः स्त्ररादीनि । तद्धितश्चासर्वविभ क्तिरित्याद्यव्ययीभावश्चेत्यंतं सूत्रयताम् । ततश्वादयो ऽसत्वइत्यारभ्यं यावदधिरीश्वरे विभाषा कृञीति । तत्र यस्मिन्प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु । अव्ययप्रदेशे ऽव्ययग्रहणं वेति । उच्यते । अव्ययसंज्ञाविरहे ऽन्वर्थसंज्ञाबललभ्यं वक्ष्यमाणं प्रयोजनं न सिद्धयेत् । निपातसंज्ञाविरहे तु शान्तनवाचार्यप्रणीः तस्य निपाता आनुदात्ता इति फिट्सूत्रस्य विषयविभागो न लभ्येत । अथ फिटशिनवादिशब्दानामित्र निपातशब्दस्याप्यन्यत एवार्थाध्यवसायः तर्ह्यव्ययसंज्ञामात्रेण निर्वाह: सुकर एवेत्यवधेयम् । महासंज्ञाकरणमन्वर्थसंज्ञा विज्ञानार्थं न व्येति विविधं विकारं न गच्छति । सत्वधर्मान् लिंगसंख्याकारकादीन गृण्हातीति यावत् । तेनोपसर्जन प्रतिषेधः सिद्धः । अत्युच्चैसौ । अत्युच्चैस इति । अतिक्रान्तप्रधानत्वेन सत्वधर्मपरिग्रहान्नेहाव्ययसंज्ञा । ननु स्वरादिषूच्चैः शब्दः पठ्यते तत्र कथं तदन्तस्य संज्ञेति चेन्न । अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात् । अन्यथोपसर्जने प्रसङ्गाभावेन तन्निवृत्यर्थायास्तस्या वैयर्थ्यापचेः । तेन परमस्त्रः, परमोच्चैरित्यादौ स्वरादिप्राधान्ये ऽव्ययत्वं सिद्धम् । अव्ययसंज्ञाया अन्वर्थत्वमाथर्वणे प्रणवविद्यायां श्रुतिरपि दर्शयति । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्यति तदव्ययमिति । एतेषु यन व्येति किन्तु सदृशमेकप्रकारं तदव्ययमिति योजना । यद्वा यस्मान्न व्येति तस्मादव्ययमिति । त्रिषु लिंगेषु सदृशं लिङ्गविशेषप्रतिपादने सामर्थ्याभावादिति भावः । विभक्तिषु कारकेषु वचनेषु चैकत्वादिसंख्यास्वव्ययीभावस्य यद्यपि लिंगकार -
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy