SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुभः । स्थया तथोक्तत्वादित्याहुः । तदपष्टम्भेमात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम् । किपि तु ऊन् । तेन धिनः धि. न्वौ धिन्वः कृणूः कृण्वौ कृष्व इति भवति । सुधी सुधिनौ सु. धिनः सुकीः सुकृणौ सुकृण इत्यादि तु न भवत्येवेत्याहुः । यक्लुको भाषाविषयत्त्वे आर्द्धधातुकग्रहणस्य तोतोर्तीत्यत्र चारितार्थ्यादावृत्तौ च मानाभावाइ गुणनिषेधप्रवृत्त्या सुधी सुधिनावित्येवास्तु । कृणोतेस्तु दीर्घ सुकीः सुकीर्णौ सुकर्णि इत्यादि भवत्वित्यपि चिन्त्यम् । नन्वेवं परिवीरित्यत्र तुग्दीर्थों पर्यायेण स्याताम् । अनेनैवोभयविधाने पौर्वापर्याभावेन विप्रतिषेधेपरमित्यस्याप्रवृत्तेः । सत्यम् । शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणाददोषः । यद्वा । सति प्रत्यय यत्कार्य भ. वितुमर्हति तदेवातिदिश्यतइति परिवीयेत्यादाविव परिवीरित्यत्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेप्यदोषः । भाष्यकारास्त्वाहुः । तृणहइमर्थ तावन्नेदं सूत्रम् । स्थानिवत्सूत्रेणैव गतार्थत्वात् । न चाविधिरयम् । हलीत्यस्य निवर्तनात् । न चैवं तृणहानीत्यत्रापीम् स्यादिति वाच्यम् । नाभ्यस्तस्याचीत्यतो ऽचि नेत्यनुवर्तनात् । नाप्याशीरित्यत्र शासइदहलोरितीत्वाथमिदम् । आशासः कावुपसंख्यानेनैव सिद्धः। तद्धि त्वयापि वाच्यम् । शासइद हलोरित्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थ, माशासः कावेव यथा स्यात् । आशास्ते इत्यादौ मा. भूदिति । यस्माच्छासेरङ् विहितस्तस्यैवाङ्साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा आशास्ते इत्यादौ न भवति तथा किप्यपि न स्यादिति विध्यर्थम् । तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम् । प्रत्ययाप्रत्ययसाधारण रूपमाश्रित्य यत्कार्य विधीयते तन्नित्तिःफलम् । तेन शोभना दृषदोस्य प्रासादस्य सुह
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy