________________
५१२
शब्दकौस्तुभः । [१ अ० हेभूः । अस्त्रीति किम् । हेस्त्रि । कथं तर्हि विमानना मुझ कुतः पितुहे इति कालिदासः। हापितः क्वासि हे मुझ इति भट्टिश्च । एकवंशमभवभ्रुव इति श्रीहर्षश्च । प्रमाद एवायमिति इरदत्तः । सामान्ये नपुंसकमिति वा कथं चित्समाधेयम् । के चिन्तु तदो दावचनेन सकृद्वंद्वमनित्यमिति परिभाषाज्ञापनमाश्रित्यानि त्योयं प्रतिषेध इति समादधुः । किन्त्वेतत्सकलप्रमादेषु मुवच.म् । तदोदावचनपत्याख्यानपरभाष्यादिविरुद्धञ्च । अन्ये तु वामीत्यतो वाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तस्य व्यवस्थितविभाषापरत्वेनेष्टसिद्धिमाहुः । तदपि न । सिंहावलोकितन्यायस्येहाभिमतत्त्वे नग्रहणस्य वामीत्युत्तरसूत्रस्य च वैयर्थ्यापत्तेः । यतूक्तं दुर्घटवृत्तौ शब्दादप्राणिजातेश्चेत्यूङि समासे उपसर्जनहूस्वत्वे च कृते उडत इत्यूङि तस्य समुदायभक्तत्वानोवङ्स्थानत्वमिति । तदतिस्थवीयः । प्रत्ययस्य भक्तताया निष्पमाणकत्वात् । तत्स्थानिकस्यैकादेशस्यान्तवद्भावेन भरूशब्दावयवताया अनपायात् । अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेप्युवङ्मवृत्तेश्च । सुरुवावित्यादिरूपाणां सर्वसम्मतत्त्वाच्चेति दिक् ॥ .
वामि ॥ इयडुवङ्स्थानौ वा नदीसंज्ञा स्तः स्त्रियामामि । श्रीणाम् । श्रियाम् । भ्रूणाम् । भरुवाम् । द्वितीयैकवचनं तु नेह सूत्रे गृह्यते । तत्र नदीकार्याभावात् । अत्रीत्येव । स्त्रीणाम् । इह वाचि ह्रस्वश्चेत्येव कुतो न कृतम् । एवं हि डिन्तीति न कर्तव्यमिति चिन्त्यम् । वस्तुतस्तु सन्निपातपरिभाषया भ्रूणामिति नुट् न स्यादत आमीत्युक्तम् । परिभाषा चेयमनेनैव ज्ञाप्यतइति ध्येयम् ।।
ङिति हूस्वश्च ॥ इयङचङ्स्थानौ ह्रस्वौ च यू वा नदी