SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४ पा. २ आ. शब्दकौस्तुभः । निवर्तेते तस्य नदीसंज्ञानिषेधः । आध्यै इत्यत्र तु अवयवस्या त्वं नास्ति अङ्गस्य तु एरनेकाच इति यविधानादियडुवङः स्थानता नास्तीति निषेधाभावः । एतदर्थमेव च तत्र स्थाजग्रहणम, इयवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्यात् यदा त्वपवादेन बाधस्तदा मा भूदिति । एवं डिति हूस्वश्चेत्यत्राप्यङ्गस्याक्षेपात्सोपि विधिरङ्गस्यैव स्त्रीत्वे भवति नावयवस्य । शकव्यै । अतिशकटये ब्राह्मणाय । श्रियै अतिश्रिये ब्राह्मणाय । इह तु स्या-. देव । अतिश्रिये अतिश्रियै वा ब्राह्मण्य इति स्थित भाष्ये । न चेह नित्यस्त्रीत्वं नास्तीति वाच्यम् । हरदत्तमते तत्सत्वात् । कैयटमते तु डितिस्वश्चेत्यत्र स्त्रीमहणमात्रमनुवर्तते न त्वाख्याग्रहणम् । एवञ्च सुधीशब्दपि रूपद्वयं निर्विवादम् । सुध्यादयः पुंवदिति प्रक्रिया तु प्रामादिक्येव । अतिलक्ष्म्यतिचम्बोर्वातप्रमीहूहूभ्यां साम्योक्तिरप्येवम् । तथा स्वयंभूः पुंवदित्यपि प्रमाद एव । स्यादेतत् । निष्कौशाम्बिः पुमानित्यत्रापि अन्तरगतया नदीसंज्ञा स्यादतिलक्ष्म्यादौ यथा । सत्यम् । सत्यामपि तस्यां न कश्चिद्रूपे दोषः । न च सम्बुद्धिहस्वादिप्रसङ्गः । हूस्वादशेन नद्या अपहारात् । वर्णस्य नदीत्वात् । स्वयाख्यत्वं तु तस्य शतयाश्रयतामात्रण बोध्यम् । पर्याप्तयधिकरणताया अविवक्षितत्त्वात् । तदन्तस्य नदीसंज्ञति पक्षेपि एकदेशविकारानभ्युपगमेन सर्वादेशस्यैव वक्तव्यत्वात् । न च स्थानिवद्भावः । अ. विधित्वात् । प्रपश्येत्यत्रेडभावार्थ विशेषणतयाप्यलाश्रयणे निषेधस्य सिद्धान्तितत्त्वादिति दिक् । निष्कौशाम्ब्य निष्कौशाम्बये ब्राह्मण्य इत्यत्र तु डितिहस्वश्चति विकल्पो भवत्येवेति दिक् ॥ नेयङवङ्स्थानावस्त्री ॥ इयडुबङोः स्थितिः स्थानं निरपवादा प्रसक्तिर्यत्र तावीदूतौ नदीसंज्ञौ स्तः स्त्रीशब्दं विना। हे श्रीः।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy