SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७८ : शब्दकौस्तुमः । . [१ अ. अगो. अग्रमित्यत्रैवमप्यातिप्रसङ्गात् । नात्र स्थान्यल आश्रयणम् । स्वत एव एडन्तत्वात् । चित्रगुरित्यत्र गोतोणिदिति णिवं प्राप्तम् । चित्रगुं चित्रगूनित्यत्र त्वा गोतोम्शसोरितिषाष्ठवार्तिकरीत्या आत्वं प्राप्तम् । अत्र णित्त्वाग्रहणं तु शक्यमकतुम् । गोत इति तपरकरणसामर्थ्यादवे णित्वात्वाप्रवृत्तेः। औतोमिति पाठस्यैव स्थापयिष्यमाणत्वाच । अचिनवमित्यादावतिप्रसङ्गस्य शसा साहचर्येणापि वारणसम्भवात् । स्त्रर । बहुगुमान् । इह इस्वनुड्भ्यां मतुबित्युदात्ततायानगोश्वनिति निषेधः प्राप्तः । तस्मादोः पूर्वस्वरयोरिति पठनीयमिति स्थितम् । एवं च नगोश्वनिति सूत्रे वृत्तौ यत्पठ्यते बहुगुना बहुगुम्यामित्यादावन्तोदात्तादुत्तरपदादन्यतरस्यामिति प्राप्तः प्र. तिषिध्यतइति । तच्चिन्त्यम् । भाष्यवार्तिकाविरुद्धत्वात् ॥ ... अचः परस्मिन्पूर्वविधौ ॥ परनिमितो ऽच आदेश: स्थानिवत्स्यात्स्थानिमूतादचः पूर्वत्वेन यो दृष्टस्तस्य तस्माद्वा निमित्तभूताद्विधौ कर्तव्ये । वव्रश्च । इहोरदित्यत्वस्य स्थानिवद्भावेन नसंप्रसारणइति निषेधाद्वकारस्य न संप्रसारणम् । न च पूर्वसूत्रेण गतार्थता । अलिधित्वात् । न च परनिमित्तत्वमसिद्धमिति वाच्यम् । अगाक्षिप्तप्रत्ययनिमित्तकत्वात् । न च प्रागभ्यासविकारेभ्योगाधिकार इति वाच्यम् । आसप्तमाध्यायसमातेरिति पक्षस्य सिद्धान्तयिष्यमाणत्वात् । पूर्वस्माद्विधौ यथा । तन्वन्ति । तन्वते । इह. यणादेशस्य स्थानिवद्भावानेद । तत्र हि तन् इत्यङ्गं निमित्तम् । तच्चोकारात्पूर्वमिति । अच इति किम् । विश्नः । प्रश्नः । द्यूत्वा । स्यूत्वा । अभिग़त्य । तथाहि । विश्नः प्रश्न इत्यत्र छकारस्य शकारः. परनिमित्तकः तस्य स्थानिवद्भावाच्छेचति तुक् प्राप्तः । अच इ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy