SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १ पा. ८आ. शब्दकौस्तुभो। २७९ ति पचनान्न भवति । स्यादेतत् । इहान्तरणत्वात्पूर्वमेव तुका भाव्यम् । न च वार्णादाङ्ग बलीय इति शकारः स्यादिति वाच्यम् । यत्र ह्येकमेव निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाङ्ग बलीयः । यथा करोतेलिटि पलि क अ इति स्थिते गौरित्यत्र सावकाशामचोणितीति वृद्धिं बाधित्वान्तरजत्वात्माप्तं यणं वृद्धिरेव बाधते । प्रश्न इत्यत्र तु शस्य न निमित्तम् । तुकस्तु छः । भिन्नकाला चानयोः प्राप्तिः । ननु यत्रै. कस्मिन्विषये युगपच्च प्राप्तिस्तत्रैवेयं परिभाषेत्यत्र किं प्रमाणमिति चेत् । धर्मिग्राहकमानमेवेति गृहाण । तथाहि । अभ्यासस्यासवर्णेइति सूत्रे ऽसवर्णग्रहणमस्याः परिभाषाया ज्ञापकम् । ए. तच्च षष्ठे प्रथमान्हिकान्ते भाष्ये स्थितम् । तद्धीपतुः ऊपतुरित्यादिवारणाय नोपयुज्यते । अन्तरङ्गेण सवर्णदीर्पण तत्रेयङवडोबर्बाधात् । तौ हि ह्यङ्गसंज्ञामभ्याससंज्ञां चापेक्षमाणौ बहिरंगौ । न चैवमप्यपवादत्वात्ताव स्यातामिति वाच्यम् । येन नाप्राप्तिन्यायेन तयोर्यणं प्रत्येवापवादत्वात् । नन्वियेषेत्यादौ प्रवृत्तस्यापि गुणस्य इयायेत्यत्र प्रवृत्ताया वृद्धश्च द्विवचनेचीति रूपातिदेशेनापहारे द्वित्वे च कृते सवर्णदीर्घस्यापि मा. प्त्या सोपि येननाप्राप्तिन्यायेनेयङवभ्यां बाध्यतेति चेत् । तहि कृतेप्यसवर्णग्रहणे निर्दिषयतापत्तिः । असवर्णग्रहणसामर्थ्यापुनर्गुणवृद्धी सवर्णदीर्घ बाधित्वा स्यातामिति चेत् । न । इय त्यादौ चरितार्थत्वात् । नन्वेवं सत्यसवर्णग्रहणं विनापि येन नाप्राप्तिन्यायेनेयर्तीति यणो बाधने सिद्ध तन्न कुर्यादिति चेत् । तर्हि सामर्थ्यादियेषेत्यादौ गुणादिप्रवृत्तिरिति फलितोर्थः । तथा च पुनरप्यसवर्णग्रहणं व्यर्थमेव । अर्तेश्चेति सूत्रयित्वा खोरिति चानुवयतेंरिकारस्य लाघवादियडि विधेये ऽभ्यासस्य:
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy