________________
२६.२
शब्दकौस्तुमः । . [१ अ० प्रत्यक्षस्यैव ग्रहणं स्यानानुमानिकस्य । आदेशग्रहणसामर्थ्यास्तूभयपरिग्रहः। तेन पचात्वित्यादेस्तिङन्तत्वात्पदसंज्ञा सिद्धयति । नन्वेरुरित्यादि यथाश्रुतमस्तु । एकदेशविकृतस्यानन्यत्वाच्च पदत्वं भविष्यतीति चेन्न । अर्थवत्येव स्थान्यादेशभाववि. श्रान्तेवाच्यत्वात्तस्यैव प्रसङ्गसम्भवात् । तथाहि । षष्ठीस्थानेयोगेत्युक्तम् । स्थानं च प्रसङ्गः । स चार्थवतः । अर्थप्रत्यायनार्थ शब्दप्रयोगात् । यद्यपि च्ले: सिजादाक्सम्भवीदम् । तथापि सति सम्भवे ऽर्थप्रयुक्तप्रसङ्ग एव ग्राह्य इत्यादेशग्रहणेनैव ज्ञाप्यते । उक्तञ्च । सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्त्वं नोपपद्यते ॥ पदमिहार्थवत् । पद्यते ऽनेनेति व्युत्पत्तेः । यद्यपि सर्वविकारे मुतरां नित्यत्वानुपपत्तिः । तथापीह विकार एव नास्तीति तात्पर्यम् । तथा च वार्तिकम् । कार्यविपरिणामावति।कार्यमिह ज्ञानं योग्यताबलात् । तथा च ज्ञाननिष्ठमुत्पादविनाशादिकं विषये आरोप्यते इति भावः । नन्वेवं बुद्धिविपरिणाममात्रस्य स्थान्यादेशभावत्वे ऽपवादेप्युत्सर्गकृतं स्यात् । तथाहि । कप्रत्ययान्तादप्यण्णन्तत्त्वप्रयुक्तो डीप स्यात् । अत्राह वार्तिककारः । सिद्धन्तु षष्ठीनिदिस्य स्थानिवद्वचनादिति । षष्ठीस्थानेयोगेत्यनुवृत्तरिति भावः । नचापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते । नाभिनमश्चेत्यादौ तु पष्टयाः स्थाने प्रथमा बोध्या । विश्रवणरवणेत्यादीनि तु शब्दा. न्तराणि प्रत्ययविषयाणि बोध्यानि ॥ विश्रवःशब्दात्तु प्र. स्थयो न भवति । अनभिधानादिति भावः । तथा च विदूराज्य इति सूत्रे भाष्यम् । वालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रेति च ब्रूयाज्जित्वरीवदुपाचरोदिति । अस्मिन्पक्ष षष्ठीनिर्दिष्टस्य स्थाने आदेशा विधीयन्तइति वृद्धिसूत्रस्थं भाष्यं