________________
१ पा. ९ आ. शब्दकौस्तुमः ।
३२५ ल्पस्य निमूलत्वात् । णिजभावपक्षे ह्यनेकाच इत्यामप्रवृत्त्या धातोरन्तोदात्तप्रवृत्त्या चाकारः कृतार्थः । अङ्कयादित्यादौ नलोपप्रतिबन्धोपि फलमिति दिक् । न चैवमप्यौज़ढदित्यभ्यासे डकारः श्रूयेत पूर्वत्रासिद्धीयमद्विवचनइत्युक्तरिति वाच्यम् । उभौसाभ्यासस्येति तदनित्यताज्ञापनात् । यत्तु पदद्विवचनाविष. यं तदिति बोपदेवस्तन्न । सुविनिर्दुर्घ्य इति सूत्रे सुपिभूतो द्विरुच्यतइति वार्तिकेन तद्भाष्येण च सह विरोधात् । अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः । एवं च वैयाघ्रपद्यवार्तिके औजढदिति पाठस्य प्रामादिकत्वकल्पनमेव प्रामादिकम् । जिशब्दपाठस्तु क्तिना निर्वाह्यः। यत्त्वदन्तेषूनधातौ मा भवानूनिनदित्यभ्यासे इकारश्रवणं तदपि लिपिप्रमादप्रयुक्तम् । अन्यथा कृतसंशब्दनइत्यत्र सुब्धातौ च स्वोक्तेन समं विरोधापत्तेः। तस्मादूननदित्येव धातुवृत्तौ साम्प्रदायिकः पाठः। नोनयतिध्यनयतीतिसूत्रे काशिकापदमञ्जर्योरप्येवमेवेत्यवधेयम् । एवञ्चेह भाष्यकाशिकयोरविरोध एवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निबांधा एवेत्यवधेयम् । यत्तु स्तौतिण्योरिति सूत्रे सिषेचयिषतीत्यत्र सिर्हेतुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्भावात्सिचशब्दस्य द्वित्वमिति न्यासकारेणोक्तं ततृत्तरखण्डे ऽकाराभावाद्भाष्यविरुद्धं, स्थानिवद्भावं विनाप्यभिमतरूपसिद्धेनिष्फलं चेत्युपेक्ष्यम्। एतेनौजढदपीप्यदित्यादिसिद्धये सामान्यापक्षतां वदन् अचिकीर्तदित्यादिसिद्धये चानित्यतां शरणाकुर्वन् सीरदेवोप्यपास्तः ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे
पादे अष्टमान्हिकं समाप्तम् ॥ अदर्शनं लोपः ॥ स्थाने इत्यनुवर्तते । तदर्थश्च प्रसङ्गे इति।