SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४१२. शब्दकौस्तुभः । [१ १० ईषान्तस्य हयादेरादिर्वा ॥ हयादेहलादेः । हलीपा । कालीषा ॥ ... उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावत्दृदयहिरण्यारण्यापत्यदेवराणाम् ॥ एषामादिरुदात्तः स्यात् ॥ __ महिष्यषाढयोर्जायेष्टकाख्या चेत् ॥ आदिरुदात्तः । महिषी जाया । अषाढा उपधाति ॥ इति तृतीयः पादः ॥ शकटिशकव्योरक्षरमक्षरं पर्यायेण ॥ उदात्तम् ॥ शकटिः । शकटी ॥ गोष्ठजस्य ब्राह्मणनामधेयस्य ॥ अक्षरमक्षरं क्रमेणोदात्तम । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः॥ . पारावतस्योपोत्तमवर्जम् ॥ शेष क्रमेणोदात्तम् । पारावतः।। धूम्रजानुमुञ्जकेशकालवालस्थालापाकानामधूजलस्थानाम्।। एषाश्चतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥ कपिकेशहरिकेशयोश्छन्दसि । कपिकेशः । हरिकेशः ॥ न्यस्वरौ स्वरितौ ॥ स्पष्टम्।न्यकुन्तानःव्यचक्षयत्स्वः॥ न्यर्बुदव्यल्कशयोरादिः ॥ स्वरितः स्यात् ॥ तिल्यशिक्यकाश्मयधान्यकन्याराजन्यमनुष्याणामन्तः ॥ स्वरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । यतोनाव इति प्राप्ते ॥ . बिल्वभक्ष्यवाणिच्छन्दसि ॥ अन्तस्वरितानि ॥ त्वत्त्वसमसिमेत्यनुच्चानि ॥ स्तरीरुत्वत् । उत त्वः पश्यम् । नभन्तामन्यके समे । सिमस्मै ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy