SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुभः । सिमस्याथर्वणन्त उदात्तः॥आथर्वणइति प्रायिकम्।तत्र दृष्टस्येत्येवंपरं वा । तेन वासस्तनुते सिमस्माइत्युग्वेदपि भवत्येव ॥ निपाता आयुदात्ताः ॥ स्वाहा ॥ उपसगाश्चाभिवर्जम् ॥ एवादीनामन्तः ॥ एवमादीनामिति पाठान्तरम् । एव एवं नूनम् । सह। ते पुत्र सूरिभिः सह । षष्ठस्य तृतीये सहस्यस इति प्रकरणे सहशब्द आधुदात्त इति तु माञ्चः । तच्चिन्त्यम् ।। वाचादीनामुभावदात्तौ ॥ उभौग्रहणमनुदात्तंपदमेकवमित्यस्य बाधाय ॥ चादयोनुदात्ताः॥ स्पष्टम् ॥ __ यथेति पादान्ते ॥ तन्नेमिमृभवो यथा । पादान्ते किम् । यथा नो अदितिः करत् ॥ प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः ॥ पदुपटुः । शेषं सर्वमनुदात्तम् ॥ शेष नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रमार्यम् । दिवदिवे ॥ इति शान्तनवाचार्यप्रणीतेषु फिदसूत्रेषु तुरीयः पदम् ॥ प्रासङ्गिक समाप्य प्रकृतमनुसरामः ॥ ___ अपृक्त एकाल् प्रत्ययः ॥ एकाल् प्रत्ययो यः सोपृक्तसंज्ञः स्यात् । संज्ञाप्रदेशा वेरपृक्तस्येत्यादयः।एकेति व्यर्थमानिपातएकाजित्येकग्रहणेन वर्णग्रहणेजातिग्रहणमिति ज्ञापनपि अल्ग्रह सामर्थ्यादेवेह व्यक्तिपरत्वात् । किञ्च सूत्रमेवेदं व्यर्थम्। अपृक्तम. देशेष्वल्ग्रहणेनैव सिद्धेः । न च सुरां सुनोतीति सुरासुत् तमाचक्षाणः सुरा इत्यत्र धात्ववयवस्य सस्य लोपः स्यादिति वाच्यम् । प्रत्ययाप्रत्ययपरिभाषया गतार्थत्वात् । विभक्तिसाहचर्याच्च । यथासूत्रारम्भपि तिसाहचर्यात्सेरपि तिङ एव ग्र
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy