SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४१४ . शब्दकौस्तुभः । ..[१ अ. हणादमैत्सीदिति सिचो न भवति । बेरपृक्तस्येत्यत्र तु वकारेकारयोरन्यतरमनुनासिकमाश्रित्यापृक्तग्रहणं प्रत्याख्यास्यतएव ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः॥समानाधिकरणावयवस्तत्पुरुषः कर्मधारयसंज्ञः स्यात् । संज्ञाप्रदेशाः पुंवत्कर्मधारयेत्यादयः । समानाधिकरणे पदे आश्रयत्वेन स्तोस्येत्यर्शआद्यच् । यदि तु पूर्वकालैकेति प्रकरणस्यान्ते कर्मधारयश्चेति कृत्वा तत्पुरुषानुवृत्त्या पर्याये लब्धे चकारागतिश्चेत्यादाविव समु चयः साध्यते तदेदं सूत्रं शक्यमकर्तुम् ॥ . प्रथमानिर्दिष्टं समासउपसर्जनम् ॥ समासविधायकं शास्त्रं समासः । तादात् । समस्यतेनेनेति व्युत्पत्त्या वा । तत्र प्रथमया यनिर्दिश्यते तदुपसर्जनं स्यात् । द्वितीयाश्रितादिभिः कृष्णाश्रितः । महासंज्ञाकरणमन्वर्थसंज्ञार्थम् । लोके ह्यप्रधानमु. पसर्जनमाहुः । तेन राज्ञः कुमार्या राजकुमार्या इत्यभयोः षष्ठीति सूत्रे प्रथमानिर्दिष्टत्वाविशेषेपि राजैवोपसर्जनं न तु कु. मारी । तेन कुमारीशब्दस्य न पूर्वनिपातो न वा गोस्त्रियोरिति दूस्वः । न च रामः कुमारीति प्रथमान्तेनैव विग्रह इति भ्रमितव्यम् । मूलाभावात् तथा च तत्पुरुषेतुल्यार्थतृतीयासप्त. मीति सूत्रे परमे कारके परमेण कारकेणेत्यादावतिप्रसङ्गमाशंक्य लक्षणप्रतिपदोक्तपरिभाषाबलेन समाहितं भाष्ये । अनेकमन्यपदार्थइति सूत्रपि भाष्यकैयटयोः स्पष्टमेतत् । प्रथमान्तेनैव विग्रह . इति नियमो नास्तीति परिनिष्ठितविभक्त यव विग्रहस्योचितत्त्वा च । अत एव पूरणगुणति समानाधिकरणेन षष्ठीसमासनिषेधोपि सङ्गच्छते । अत एव चैकविभक्तिचापूर्वनिपातइत्यस्य विषयलाभः । स्यादेतत् । उक्तरीत्या सूत्रभाष्यादिस्वरसान्यायाच्च द्वितीयाद्यन्ततया परिनिष्ठितस्य प्रथमान्तेन विग्रहो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy