________________
१ पा. १ आ. शब्दकौस्तुमः । दित्वात्क इति भाष्यस्य च अननुगुणम् । अत एव गङ्गाधरादिशब्दानां संज्ञाशब्दत्वमिति प्राञ्चः । वस्तुतस्तु प्रथमं कर्याविवक्षायामनकपदं व्युत्पाद्य पश्चात्कर्मसंबन्धेप्यदोषः वार्तिकादिकं तु प्रथममेव कर्मविवक्षामभिप्रेत्य, अन्यथा कृतपूर्व्यादिषु का गतिः । अत एव शक्यं चक्षुरुपहन्तुमिति भाष्यव्याख्यायां बहिरङ्गस्त्रीत्वप्रतीत्या अन्तरङ्गः पदसंस्कारो न विहन्यतइति कैयटोपि वक्ष्यति । विवक्षा च लोकप्रसिद्धयनुसारिणी न तु स्वायत्ते. ति विपराभ्यांजेरित्यादावपि पूर्व धातुः साधनेन युज्यतइति पक्षमुपष्टभ्य विजयतीत्यादि नापादनीयमिति दिक् । तथा च ऋग्वेदएव पठ्यते । सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्य सुषिरामिवेति । अस्यार्थः । हे वरुण सत्यदेवोसि यस्य ते काकुदं तालु काकुर्जिव्हा सा उद्यते उ. क्षिप्यते ऽस्मिन्निति काकुदं वदेरुक्षेपणमर्थः। धातूनामनेकार्थत्वात् । ततो घबर्थे कविधानमित्यधिकरणे कः सम्प्रसारणं षष्ठीतत्पुरुषे शकन्धवादित्वात्पररूपम् । नुद प्रेरणे इत्यस्मादाधिकरणे कः पृषोदरादित्वान्नुशब्दस्य लोप इत्यन्ये । निरुक्तस्वरसोप्येवम् । सप्तसिन्धव इव सिन्धवो विभत्तयः । अनुक्षरन्ति तालु मा. प्य प्रकाशन्तेइत्यर्थः । अत्र दृष्टान्तः । यथा सच्छिद्रां लोहमयीं प्रतिमां प्रविश्याग्निः प्रकाशते तथेति । अग्निहि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोपि शारीरं पापमपाकुर्वन्तीति भावः । सूर्मी स्थूणा ऽयम्प्रतिमेत्यम: सः । स्मर्यते च । सूर्मी ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पग इति । अमिपूर्व इत्यत्र वाछन्दसीत्यनुत्तेर्यणादेशः । सुषिरामित्यत्रार्शआयच् अभेदोपचारो वेत्याहुः । वस्तुतस्तु ऊषसुषिमुष्कमधोर इति मत्वर्थीयो रमत्ययः । रन्धुं श्वभ्रं वपा