SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३६ शब्दकौस्तुभः । [१ अॅ० त् । तथाहि सति विभाषाश्चरित्यस्य नवाशब्दः श्वयतेरादेश इत्यर्थः स्यात् इतिशब्दे तु सत्यर्थः संज्ञीति लभ्यते । तथाहि । लोके ह्यर्थप्रधानः शब्दः गौरित्ययमाहेत्यादौ तु शब्दस्वरूपपरः संपद्यते । व्याकरणे तु स्वरूपमितिपरिभाषणात् स्वरूपपरत्वम त्सर्गिकम्, इतिशब्दसमभिव्याहारेत्यर्थपरतेति विशेषः । अर्थस्यैव संज्ञात्वमपि, न तु विभाषाशब्दस्येत्युक्तम् । तेन हक्रोरन्यतरस्यामित्यादावपि वैरूप्योद्धारो बोध्यः । एतत्प्रसंगेन त्रिविधा आप विभाषाः मायेण भाष्ये विवेचिताः। तत्राप्राप्तविभाषामध्ये प्रोयाङ, अचिविभाषेति पठितम् । अत्र वदन्ति । अप्राप्तविभाषेयमिति सत्यं, किं तु त्रिसंशया इत्युपक्रम्य प्राप्ते ऽप्राप्ते उभयत्र वेत्येवंरूपकोटित्रयप्रकारकसंशयविषयीभूतानामेव व्युत्पाद्यमानत्वादत्रापि कोटित्रयस्योक्तिसंभवो वक्तव्यः । स च दुर्वचः । तथाहि । निजेगिल्यतइत्यत्र ग्रोयडीति नित्यं लत्वं विभाषायास्तु तत्र प्रा. प्तिरेव नास्ति । गिलति गिरतीत्यादौ तु विभाषा, ग्रोयडीत्य स्य तु प्राप्तिरेव नास्ति, तत् कुतः प्राप्तविभाषापक्षः । अथोच्येत, अचिविभाषत्यत्र यङीत्यनुवर्य यनिमित्तस्य रेफल्याचि अनन्तरे वा लत्वमिति व्याख्यानादस्त्येवोक्तिसंभव इति। तन्न । निजेगिर य अच् इतिस्थिते हि ग्रोयङीति प्राप्नोति । न चास्या मवस्थायां विभाषायाः प्राप्तिः । अच्परत्वाभावात् । अथ ब्रूया: विभाषारंभसामर्थ्याधङ्लुकः पूर्व ग्रोयडीत न भवतीति, एवमप्युभयत्रविभाषात्वं दुर्लभमेव । गिरति गिलतीत्यादौ विभाषायाश्चरितार्थत्वेन यलुकः प्रा. गेव ग्रोयडीत्यस्य प्रवृत्तेरुभयोरसमानकालिकत्वात् । न च लसस्यासिद्धतया ततःप्रागेव लुगिति वाच्यम् । अन्तर्भूतयङपेक्षत्वे.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy