SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १ पा. ६ आ. शब्दकौस्तुभः । २३७ नान्तरङ्गं त्वं प्रति बहिर्भूताच्प्रत्ययापेक्षत्वेन बहिरङ्गस्य लुको सिद्धत्वात् पूर्वाभावेन पूर्वत्रासिद्धमित्यस्याप्रवृत्तेरिति । अत्रोच्यते । प्राप्तविभाषाले तावत् समनन्तरोक्तरीत्यैवोक्तिसंभवः । उभयत्रविभाषात्वे त्वित्थम् । अन्तरङ्गानपीति न्यायेन लत्वात् पूर्व लुकू । च लुनिमि. मजेव दुर्लभः । तस्यार्थापेक्षत्वेन बहिरङ्गतयासिद्धत्वात् पूर्वाभावेन पूर्वत्रासिद्धमित्यस्याप्रवृत्तेः । तथा चाचः पूर्वमेव लत्वं स्यादिति वाच्यम् । कृतितुग्विधिग्रहणेन हि बहिरङ्गपरिभाषाया अनित्यत्वज्ञापनात् । धर्मिग्राहकप्रमाणेन लुक इव तदुपजीव्यानां समासादीनामपि प्राबल्यसिद्धेश्व । ननु कृते ऽचि तनिमित्ते लुकि च सति निजेगिर अच् इति स्थिते प्रोयङीति न प्राप्नोति यपरत्वाभावात् प्रत्ययलक्षणं तु नलुमतेति निषिद्धम् । तत्र ह्यङ्गस्येत्यनेनाङ्गाधि-कारो न निर्दिश्यतइति वक्ष्यते । न च स्थानिवद्भावः । लुका लुप्तं न स्थानिवदिति निषेधात् । अज्झलादेशत्वाच्च । तथा च कथमुभयत्र विभाषेति चेत्र । नधातुलोपसूत्रप्रत्याख्यानपक्षे पृथगल्लोपाश्रयणेन स्थानिवद्भावसम्भवात् । न च पूर्वत्रासिद्धे न स्थानिवदिति निषेधः । तस्य दोषः संयोगादिलोपलत्वणस्वेष्विति सापवादत्वात् । यद्यप्यचिविभाषेत्यस्य पूर्वत्रासि द्धमिति प्रोगङीति प्रत्यासिद्धत्वाद्विप्रतिषेधासम्भवः । ततश्व सत्यामपि यङीत्यस्य निवृत्तावुभयत्र विभाषात्वं न सम्भवति । तथाप्यधुनेत्यादिवल्लाघवार्थममुनेत्येव वक्तव्ये नमुनइत्युक्तेर्यो - 'गविभागार्थतया न योगे योगो ऽसिद्धः किं तु प्रकरणे प्रकरणमिति चासिद्धत्वं न भविष्यतीत्याशयेनोभयत्रविभाषात्वे उक्तिसम्भवो बोद्धव्यः । सिद्धान्ते तु विभाषाया असिद्धत्वादेव :
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy