________________
२३८
शब्दकौस्तुभः ।
[ १ अ
नित्यं लत्वं समुदायलोपवादिनां तु मते अजपेक्षयान्तरङ्गत्वानित्यं लत्वमिति व्यवस्थितविभाषेति वा समर्थयितव्यम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे षष्ठमान्हिकम् ॥
इग्यणः सम्प्रसारणम् ॥ यणः स्थाने इक् भवतीत्येवंरूपो वाक्यार्थः यणस्थानिक इग्रूपो वर्णश्चेत्युभयमपि सम्प्रसारसंज्ञं स्यात् । तत्र व्यङः सम्प्रसारणमित्यादिषु विधिप्रदेशेषु वाक्यार्थस्य ग्रहणं सम्प्रसारणाच्चेत्याद्यनुवादप्रदेशेषु वर्णस्येतिविवेकः । पूर्वसूत्रादितिशब्दानुवृत्तेर्वाक्यार्थस्य संज्ञित्वमिति लभ्यते । तत्प्रत्याख्यानपक्षे तु वाक्यमेव संज्ञि । न चैवं तदेव विधेयं स्यादिति वाच्यम् । वाह ऊद् सम्प्रसारणमितिसामानाधिकरण्यबलेन तदुपस्थापितार्थस्यैव विधेयत्वनिर्णयात् । न चैवमपि ष्यङः सम्प्रसारणमित्यादौ दोषतादवस्थ्यम् । सामान्यापेक्षज्ञापकाश्रयणात् । ननु तथापि वाक्यतदर्थयोरन्यतरस्य संज्ञित्वमस्तु वर्णस्य तु कथ मिति चेत् । तन्त्रातृस्येकशेषाणामन्यतमाश्रयणेनार्थद्वयाभ्युपगमादित्यवेहि । अत्र च विधेयानुवाद्यसमर्पक विभक्तया सूत्रे निर्देश एव लिङ्गम् । आह च । विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्यति । उभयोः संज्ञेति षष्ठीतत्पुरुषः । भर्तृहरिश्श्राह । सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस्तथा सूत्र एकस्मिन्नेवजायते । तथा द्विर्वचनेचीति तन्त्रोपायादिलक्षणः । एकशेषेण निर्देशो भाष्यएव समर्थित इति ॥ तन्त्रं च शब्दतंन्त्रमर्थतन्त्रं बेति मतभेदेन व्यवस्था बोद्धव्या । अर्थभेदाच्छन्दभेदे आयः पक्षः । शब्देक्ये द्वितीयः । आद्येपि व्यंजकध्वनिमात्रभेदे व्यङ्गयैक्ये आवृत्तिरेवेत्यादि बोध्यम् । एवं च तन्त्रस्वमैकरू
: