SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १. १ पा. ७ आ. बदकोश। "पाय २३९ प्येण भवेत्तुल्योपकारतः । उपकारान्यथाले. तु भवेदावृत्तिलक्षणमिति मीमांसकमर्यादानुरोधो वैयाकरणने कत्तव्यः । तस्य भाष्यादिसकलवैयाकरणग्रन्थाविरुदत्वात् । मूलयुक्तिशून्यतया दुरुपपादत्वाचेति दिक् । यद्वा । वाक्यार्थ एव संझी अनुवादे तु तन्नित्तो वर्णो लक्ष्यते..। सम्प्रसारणाज्जातं स. म्प्रसारणमिति । अथ वा वर्ण एव संझी । विधिप्रदेशेषु तु सूत्रशाटकवद्भाविसंज्ञाश्रयणीयति । सर्वेप्येते पक्षा भाष्ये स्थिताः । स्मादेतत् । अदुहितरामित्यत्र लकारस्य यगः स्थाने उत्तमपुरुपैकवचनमिद । तस्य च सम्प्रसारणसंज्ञायां सत्यां हल इति दीर्घः स्यात् । तरपं प्रति लङन्तस्याङ्गत्वादिति । अत्राहुः । संख्यातानुदेशाधकारस्थानिकस्यैव इकारस्य संज्ञा न तु लकारस्थानिकस्येति । अत्रेदमवधेयम् । वाक्यार्थः संज्ञीति पक्षे तस्योद्देश्यविधेयसंसर्गरूपतया तत्र यथासंख्यपरिभाषोपस्थितौ यणः स्थाने इक्स्यायथासंख्यमित्यवान्तरवाक्यार्थः सोयं सम्प्रसारणसंशः स्यादिति महावाक्यार्थः । न चाबान्तरवाक्याथै गृहीत्वा यातिवातिद्रातीत्यादावतिप्रसाः । तस्य संज्ञासम्बन्धमात्रफलकत्वात् । अन्यथा प्याः सम्प्रसारणमित्यादेवैयापत्तेरतो नोक्तदोषः । अहीत्यादेस्तज्जत्वाभावाच्च । उभयसंज्ञात्वपक्षेपि उपस्थितत्वायथासंख्यप्रवृत्त एव वर्णः संजीति । अतो ऽदुहितरामित्यत्र नातिप्रसङ्गः । इदं च कर्मकर्तरि रूपमिति हरदत्तः । उपलक्षणं चैतत् । केवले कर्तर्यपि सम्भवात् । वर्ण एव संजीति पक्षे तु यथासंख्यं दुर्लभम् । अनुवादे परिभाषाणामनुपस्थानस्योपपादितत्वात् । न चैवं स्थानेयोगोप्यस्मिन्पक्षे न लभ्येतेति वाच्यम् । षष्ठी स्थानेयोगेत्यत्रानुवर्त्य एतत्सूत्रस्य व्याख्येयत्वात् । उक्तं हि इ.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy