SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५६ शब्द कौस्तुभः । [ १ अ० पूर्वी भागो sकारसदृश उत्तरस्तु इवर्णोवर्णसदृशः तत्र उभयांतरतमस्य -हस्वस्याभावात्पर्यायेणाकारः स्यात् । इकारोकारौ च स्यातां तस्मान्मा कदाप्यवर्ण भूदिति सूत्रारम्भः । वस्तुतस्तु प्रत्याख्यास्यते सूत्रम् । तथा च तत्र वार्तिककारो वक्ष्यति । सिद्धमेङ: सस्थानत्वात् । ऐचोश्चोत्तरभूयस्त्वादिति । अस्यार्थः । शब्दपरविप्रतिषेधेन एङ उत्तरभागान्तरतमौ इवर्णावति सि द्धम् । यद्वा । एकारः शुद्धतालव्यः औकारस्तु शुद्धौष्ठय इति मते सिद्धमित्यर्थः । तथा च बह्वृचानां प्रातिशाख्यम् । तालव्यावेकारच विकारैकारौ यकारः शकार इति । शेष ओष्ठ्योपपाद्य इति च । पूर्वोक्तेभ्यः शेषो वर्णराशिरोष्ठाभ्यामुपपादयितव्यः । उवर्णः पवर्ग: ओ औ उपध्मानीयश्च ओष्ठ्य इति सूत्रार्थः । इदं च प्रातिशाख्यवृत्तिकृता व्याख्यातम् । तद्भाष्ये तु शेष ओष्ठयोपवाद्येति पाठः । तत्र अपवाद्यत्यस्य उत्तरसूत्रे वक्ष्यमाणान् विद्यायेत्यर्थः न्यायसिद्धस्यैव वाध्यबाधकभावस्य स्फुटीकरणार्थ चेदं सूत्रम्। तदेवं शब्दपरविप्रतिषेधान्मतभेदेन स्थानसाम्याद्वा सिद्धमिति समाधानद्वयं एङ्क्षु फलितम् । एतच्च यद्यप्यैक्ष्वपि तुल्यं तथापि तत्र समाधानान्तरमप्यस्तीत्याह । ऐचोश्चेति । चकाशे भिन्नक्रमः । हेतोरनन्तरं बोध्यः । अर्द्धमात्रा वर्णस्य । अध्यर्द्धमात्रा इवगोवर्णयोरितिपक्षे मल्लग्रामादिवद्भूयसा व्यपदेशादपि इकरोकारौ भविष्यत इत्यर्थः । समप्रविभागपक्षोप्यस्तीत्यष्टमे वद । तत्र तु पूर्वोक्तसमाधानद्वयमेव शरणम् । तत्रापि शब्दपरविप्रतिपेपरं प्रथमव्याख्यानं यद्यपि विवरणे स्थितम् । तथापि तदभ्युपगमे ऽप्रतिपत्तिमयोरित्यादिविप्रतिषेधे परमितिसूत्रे वार्त्तिकं भाष्यं च विरुध्येत । नहि गोस्त्रियोरितिसूत्रेण गोशब्दे विधीयमानो -हस्वोन्यत्र चरितार्थः । येनाप्रतिपत्तिः स्यात् । I
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy