________________
१ पा. २ आ.
शब्दकौस्तुभः ।
ननु प्रतिलक्ष्यं लक्षणभेदेन विकल्पे प्राप्ते परमेवेति नियमोस्त्विति चेन्न । एवं हि सति अचः परस्मिन्नितिसूत्रे नित्यः परयणादेशः परश्वासौ व्यवस्थया । युगपत्सम्भवो नास्ति बहिरङ्गेण सिध्यतीत्यादिभाष्यसन्दर्भों विरुध्येत । तद्बलेन हि लक्षणवाक्ययोः पूर्वापरीभाव एव विप्रतिषेधसूत्रस्य विषयो ऽन्यस्तु अन्तरङ्गम्बलवदित्तास्येति लभ्यते । इदं च तत्रैव स्फुटीकरिष्यामः । द्वितीयव्याख्यानमपि अकारादिवत्मातिशाख्योक्तस्य प्रायेणानादराद्दुर्बलम् | अथ छन्दोगाभिमतस्यापि चतुर्मात्रस्य तपरकरणव्यावर्त्त्यतो के स्तद्वदि हाप्यभ्युपगमस्ता ऋऌक्सूत्रोक्तरीत्या ऋकारटुकारयोः सवर्णविधिरितिवार्त्तिकमपि प्रत्याख्यातुं शक्यम् । अथ शिक्षान्तरानुसारेण वार्त्तिकारम्भस्तर्हि एचइगितिसूत्रारम्भोपि तथैवास्त्विति दिक् । तस्मादेच इगितिसूत्रबनार्दै काराकारौ न लभ्येते इति स्थितम् । ननु प्रातिशाख्योक्तावपि ताविह गृह्येते चेत्तदा किमनिष्टमापद्येत येन तयोरग्रहणं यत्नतः प्रतिपादयसीति चेत् । न । एचो ह्रस्वविधौं अन्तरतमत्वेन तयोरेव प्रसङ्गात् । एच इगिति सूत्रं तु प्रत्याख्या - तमेव । एतदर्थमेव सूत्राभ्युपगमे तु गौरवमेव दोषः । स्यादेत - त् । एत् ओत् ङ् इत्यादिक्रमेण तपरानेव निर्देक्ष्यामः । तथा च ऊकालसूत्रे अच्शब्देन तपराणामेवोपस्थितौ सत्यां तत्कालग्रहणादर्ध एकार ओकारो वा स्वसंज्ञां न लभेत तेन ह्रस्व विधिविधेयोप्यसौ नेति । मैवम् । त्रिमात्राणामप्यनच्त्वापत्तेः । ततश्च गो ३ त्रात इत्यत्र अनचिचेत्यचः परस्य विधीयमानं द्वित्वं तकारस्य न स्यात् । प्रत्यङ्ङेतिकायन उदङ्ङौपगव इति ङमुद् न स्यात् । प्लुतसंज्ञाविरहात् प्लुतविधिर्न प्रवर्त्तेत । न च ओमभ्यादानइत्यादिविधिसामर्थ्यातत्सिद्धिः ।
५७