________________
५८
शब्दकौस्तुभः । [१ ० उवर्णविधानेन चरितार्थत्वापत्तोरति दिक् । तदतदाह वार्तिककारः । सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम्, प्लुत्यादिष्वविधिः । प्लुतसंज्ञा च । अतपर एच इग्यूस्वादेशे एकादेशे दीर्घग्रहणमिति । अस्यार्थः । श्लिष्यमाणवर्णद्वयसदृशावयवत्वासंधीयमानमक्षरं सन्ध्यक्षरमित्यन्वर्था पूर्वाचार्यसिद्धा एचा सं. ज्ञा । तपर उपदिश्यतेनेनेति करणव्युत्पत्त्या प्रयोजनमुच्यते । तथा च एचा तपरत्वोच्चारणे फलमस्ति चेत्तर्हि तपरोच्चारणं तावत्कर्त्तव्यम् । प्लुतत्त्वे सत्यप्यविधित्विङमुडादिर्न सिद्धयति । तत्र प्लुतस्यैव ङमुडादिः, तस्मात्परस्य द्वित्वमिति सूचयितुमादिशब्दः । प्लुते तदुत्तरवर्णेषु चेष्टकार्य सिध्यतीत्यर्थः । अभ्युपत्येवादो ऽयम् । वस्तुतस्तु अनच्त्वात्प्लुतसंज्ञैव न सिध्यति । तस्माद्दुष्टस्तपरनिर्देश इति वार्तिकत्रयेणोक्तम् । यथान्यासपाठे त्वाह । अतपर इति । सूत्रं कर्त्तव्यं स्यादकारादिनिवृत्तये इत्यर्थः । वस्तुतस्तु उभाभ्यामपि सूत्रं कर्त्तव्यम् । उभाभ्यामपि वा न कर्त्तव्यमिति समनंतरमेवोपपादितम् । तस्मानायं दोष उद्भावनाहः पक्षद्वयसाधारण्यात् । स्यादेतत् । तपरत्वाभावपक्षे गङ्गोदकं रमेश इत्यादौ त्रिमात्रचतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्रा एवादेशाः स्युः । आन्तरतम्यात् । नचाकः सवर्ण इति सूत्रे दीर्घ इति योगं विभज्य एकः पूर्वपरयोरित्यधिकारे यो विहितः स दीर्यों भवतीति व्याख्यानान त्रिमात्राद्यादेश इति वाच्यम् । पशुं विद्धं पचंतीत्यत्र दोषप्रसंगात् । ननु अमीत्येव सूत्रमस्तु । प्रथमयोरिति सूत्रात्पूर्वसवर्णोनुवर्तते । एकः पूर्वपरयाोति च । एवं सिद्ध पूर्वग्रहणं यथाजातीयकः पूर्वः स एव यथा स्यात् दीर्घो मा भूदिति । तेन पशुमिति तावत्सिद्धम् । सम्प्रसारणाच्चेत्यत्रापि स एव पूर्वश