SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११६ शब्दकौस्तुभः । [१ अ० वाच्च । एतेन मिदेरन्त्यस्य वेको वेति चतुर्थपक्षोपि प्रत्युक्तः । विकल्पस्याष्टदोषग्रस्तत्त्वाच्च । अस्तु तर्हि तदपवाद इति प. ऽचमः पक्षः । तथाहि । गुणविधावङ्गस्येति न स्थानषष्ठी। किन्तु इगपेक्षयावयवषष्ठी । ततश्च लिङ्गाभावादलोन्त्यपरिभाषाया अनुपस्थितिः। अयमेव च बाधपदार्थः।यदीपरिभाषा न भवेत्ताह स्थानषष्ठीत्वं तन्मूलकालोन्त्यपरिभाषोपस्थितिश्च स्यात् । सत्यानित्वपरिभाषायां तदुभयं नेत्येतावतैवापवादत्वव्यवहारः। न हि वस्तुतो वचनेन प्रापितस्य बाधः सम्भवति । शास्त्राप्रामाण्यप्रसङ्गात् । अत एव शास्त्रतात्पर्यसङ्कोचो बाघ इत्याहुः । एतेन द्वंद्वापवाद एकशेष इत्यपि व्याख्यातम् । नत्यनुत्पन्नायां विभक्तौ द्वंद्वस्य प्रसङ्गः । किन्तु ययेकशेषो न भवेत्तहि प्रत्येकं विभक्तिर्द्वद्वश्व स्यात्सति त्वेकशेष तन्नेत्येव तत्त्वम् । अस्मिंश्च पक्षे जुसि गुणो अजुहवुरित्यत्रेवानेनिजुः पर्यवेविषुरित्यादावपि स्यात् । सार्वधातुकार्दधातुकयोरिति गुणो भवतीत्यादाविवहितेत्यत्रापि स्यात् । तथा च वार्तिकम् । इङ्मात्रस्योत चेज्जुसि सार्वधातुकार्धधातुकहूस्वाद्योर्गुणेष्वनन्त्यपतिषेध इति । अत्र ह्रस्वादीति इस्वस्य गुणः जुसि च ऋतोङि सर्वनामस्थानयोडिन्तीति गुणचतुष्टयं गृह्यते । ततश्च हे अमे अग्नयः कर्तरि अग्नये । बाभ्रव्य इत्यत्र यथा ओर्गुणान्तं गुणपञ्चकं भवति । एवं हे अग्निीचत् अग्निचितः सन्ति सुकृति अग्निचिते सौश्रुत इत्यत्रापि स्यादिति वार्तिकाथः । यद्यपीह निर्दिष्टस्थानिकत्वात्परिभाषा दुर्लभा । अग्निचिच्छब्दस्य घिसंज्ञाभावाच घेर्डिन्तीत्यतन प्राप्नोति तथापि वात्तिकस्योक्तिसम्भवमित्थं वर्णयन्ति । हूस्वस्य गुणो जसिचेति सूत्रयोस्तावद्भूस्वेनेग्विशेष्यते । दीर्घव्यावृत्तिश्च फलम् । अ.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy