________________
शब्दकौस्तुभः। . [१ अ० वयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चनेति ॥ तस्मादखण्डं पदं वाक्यं वेति पञ्चापि व्याक्तस्फोटावान्तरभेदाः ॥५॥ जातिस्फोटवादिनस्तु घोत्तरटत्वादिकं शक्ततावच्छेदकतया आद्यपक्षत्रयपि यथायथं वाच्यम् । अन्यथा सरोरस इत्यादावविशेषप्रतीत्यनापत्तेः । तच्च उपाधिरूपम् । उपाधिश्च परंपरासंबद्धा जातिरेव । सा च सर्वाधिष्ठानब्रह्मस्वरूपात्मिका । तथा च शक्यांशइव शक्तांशेपिन्यायसाम्येनाकृत्यधिकरणरीत्या ब्रह्मतत्वमेव तत्तदुपहितं वाच्यं वाचकं च । अविद्याविद्यकधर्मविशेषो वा जातिरिति पक्षे तु सैव वाचिकास्त्वित्याहुः ॥ ८ ॥ अष्टावयेते पक्षाः सिद्धान्तग्रन्थेषु तत्रतत्रोपनिबद्धाः। तथा हि । स्थानिवत्सूत्रे सर्वे सर्वपदादेशा इतिभाष्यग्रन्थः । पद्यतेर्थो ऽनेनेति अर्थवदिह पदं न तु मुप्तिङन्तमेव । तथाच एरुरित्यस्य तेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेनुकूलः । तथा स्थान्याभिधानसमर्थस्यैवादेशत्त्वमिति स्थानेन्तरतमपरिभाषयैव तस्थस्थमिपामित्यादिषु निर्वाहात्तदर्थ यथासंख्यसूत्रं नारब्धव्यमिति भाज्यमपि । पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके येनोचारितेनेति भाष्यप्रतीकमुपादाय कैयटेन भाष्यार्थतया वर्णितौ । वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वेति वदता तयोरखण्डताप्युक्ता । नित्येषु शब्दषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमिति तत्रतत्र भाष्ये सखण्डतोक्ता। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियामित्यमरः । पस्पशायामेव प्रघट्टकान्तरे किंपुनरित्यादि भाष्यमुपादाय के चिद्वर्णस्फोटमपरे पदस्फोटं वाक्यस्फोटं चाहुरितिं वदता कैयटेन अइउण्इत्यत्र व्यक्तिस्फोटजातिस्फोटयोर्बलाबलं चिन्तयता प्रत्याहारान्हिकान्ते अक्षरं न क्षरं विद्यादिति भाष्यव्याख्यावसरे व्यव