________________
१ पा. १ आ. शब्दकौस्तुभः । • हारनित्यता तु वर्णपदवाक्यस्फोटानां नित्यत्वं तु जातिस्फोटस्पेति प्रतिपादयता अनुपदमेव ब्रह्मतत्त्वमेव हि शब्दरूपतया प्रतिभातीत्यर्थ इति व्याचक्षाणेन सर्वे पक्षाः सूचिता एव । यदा तु अविद्यैव जातिरिति पक्षस्तदभिप्रायेण जातिस्फोटस्यापि व्यवहारनित्यतेति अक्षरं न क्षरं विद्यादित्यस्य कैयटीये पाठान्तरम् । आयन्तौटकितावितिसूत्रे च भाष्यएव वर्णस्फोटपदस्फोटावुक्तौ । असत्यमेव प्रकृतिप्रत्ययविभागं तदर्थ चाश्रित्य रेखागवयन्यायेन सत्यस्य पदस्फोटस्य व्युत्पादनमभिप्रेतमिति तत्रैव कैयटः । अर्थवदधातुः, स्वंरूपंशब्दस्य, तपरस्तत्कालस्येत्यादि सूत्रेष्वपि स्पष्टमिदं भाष्यकैयटादावित्यलं बहुना । जातेश्च ब्रह्मात्मकत्वमुक्तं हरिणा । सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते। सा नित्या सा महानास्मा तामाहुस्त्वतलादय इति ॥ जातेः स्फोटत्वमपि प्रघट्टकान्तरे स एवाह । अनेकव्यक्तयभिव्यंग्या जातिः स्फोट इति स्मृता। कैश्चिद्वयक्तय एवास्या ध्वनित्वेन प्रकल्पिता इति ॥ यद्यपीहाष्टौ पक्षा उक्तास्तथापि वाक्यस्फोटपक्षे तात्पर्य ग्रन्थकताम् । तत्रापि जातिस्फोटइत्यवधेयम् । पूर्वपूर्वोपमर्देनैवोत्तरोत्तरोपन्यासात् । तथा च प्रथमव्युत्पत्तेर्व्यवहाराधीनतया संपूर्णस्य वाक्यस्य विशिष्ट प्राथमिकः शक्तिग्रह इति निर्विवादम् । स चावापोद्वापाभ्यामवयवानां शक्तिरिति न्यायोपष्टम्भेन त्यज्यतइति दर्शनान्तराणां पन्थाः। एकादेशादिस्थले उक्तरीत्या विनिगमनाविरहेण कैश्चित्पररूपादिस्थले पूर्वलोपाद्यभ्युपगमेन च व्याकरणानां कलहे सति अवयवशक्ते?रुपपादतया प्राथमिकशक्तिग्रह एव प्रमारूप इति तु सैद्धान्तिकः प