________________
१२ शब्दकौस्तुभः ।
[१ अ० न्थाः । उक्तं च हरिणा । तत्र यन्मुख्यमेकेषां तत्रैतेषां विपर्यय इति । ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले । देवदसादयो वाक्ये तथैव स्युरनर्थका इति च । एवंस्थिते निपाता द्योतका विकरणा अनर्थका इत्यादिविचारोपि प्रक्रियादशायामेव । आह च । अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृश इति ॥ तादृशो ऽखण्ड इत्यर्थः। एवं च नामार्थयोरभेद एव संसर्गः प्रत्ययार्थः प्रधानमित्यादिव्युत्पत्तयोपि प्रक्रियाश्रया एव । उक्तं च । किंगजन्ये किंग कीदृग्भातीति नो मते । विचारः फलितः सर्वः प्रकृतिप्रत्ययाश्रय इति । आरोपितस्यापि परिमार्थिके उपायता न विरुद्धा । लिपिस्थूलारुन्धतीशाखाचन्द्रादीनां लौकिकदृष्टान्तानामर्थवादवाक्यपञ्चकोशावतरणादीनां तन्त्रान्तरसिद्धानां पूर्वत्रासिद्धादीनां चैतच्छास्त्रसिद्धानां प्रागेव दर्शितत्वात् । तदेवं पक्षभेदेन अविद्यैव ब्रह्मैव वा स्फुटत्यर्थो ऽस्मादिति व्युत्पत्त्या स्फोट इति स्थितम् । आह च । शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यतइति । समारम्भस्तु भावानामनादि ब्रह्म शाश्वतमिति च । तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामाणं लब्धवानिति वासिष्ठरामायणोक्ताभाणकन्यायेन शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादद्वैते औपनिषदे ब्रह्मण्यपि व्युत्पद्यतामित्यभिप्रायेण भगवान्भर्तृहरिविवर्त्तवादादिकमपि प्रसङ्गाद् व्युदपादयत्, तत्तु तन्त्रान्तरे स्फुटं प्रकृते नातीवोपयुक्तं चेति नेह तन्यते ।
... इति स्फोटस्वरूपव्युत्पादनम् ॥ ... स्यादेतत् । चं लिख चकारस्त्रुटित इत्यादिव्यवहाराल्लिपावेव शब्दभूमवतां तत्रैव वाचकत्वाभिमानजुषां बालानां पुस्तकमुपयुज्यते यथा तथैव भेदग्रहवतामपीति वस्तुस्थितिः । एवमिहा