________________
१ पा. ६ आ. शब्दकौस्तुभः ।
२३१ आमंतं हि प्रत्ययलक्षणेन कृदंत, श्रूयते च मान्तम् । न चैवं प्रतामौ प्रतामो, लवमाचक्षणो लौरित्यादावतिप्रसंग इति वाच्यम् । स्वरादिषु प्रशान् शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन क. दन्तत्वमुपजीव्याव्ययसंज्ञा न भवतीति ज्ञापितत्वात् । न च मोनोधातोरिति नत्वे कृते नैतन्मान्तमिति कथं ज्ञापकतोति वाच्यमानत्वस्यासिद्धत्वात् । न च शानतेजन इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्रयोगसिद्धयर्थ चुरादित्वस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम् । अनभिधानात् । तस्मारिकपोनुत्पत्तेः । अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम् । अव्ययामित्यन्वर्थसंज्ञाबलादसत्वार्थस्य साम्यवाचिन एवं प्रशान्शब्दस्य तत्र ग्रहणं न तु शान्तिमद्वाचकस्य । तेन प्रशामौ प्रशाम इत्युदाहरणं न विरुध्यते । स्वस्त्यादीनां तु सत्ववाचिनामपि पाठसामर्थ्यांदव्ययत्वमिति विशेषः । अन्तग्रहणसामोनित्ययोगे बहुव्रीहिराश्रीयते । तेनौपदेशिक एज् गृह्यते । नेह, आधये चिकीर्षवे कुम्भकारेभ्यः । वस्तुतस्त्वंतग्रहणं व्यर्थम् । लक्षणप्रतिपदोक्तपरिभाषयैवातिप्रसंगभंगात् । ननु वर्णग्रहणे इयं परिभाषा न प्रवतते । अन्यथैचोयवायाव इत्यादावतिप्रसंगादिति चेन्न । एवमपि बहिरङ्गपरिभाषया सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषया वेष्टसिद्धः । अयमत्रार्थः । सन्निपातः संश्लेषः तनिमित्तो यो विधिः स तद्विघातस्यानिमित्तम् । तं सनिपातं यो विहति स तद्विघातस्तस्येत्यर्थः । एवं च सुप्सन्निपातलक्षणस्य घेड़ितीति गुणस्य बहुवचने झल्येदित्येत्वस्य चाव्ययसंज्ञा प्रति निमित्तत्वं नेत्यवधेयम् । तथा परिभाषायाः प्रयोजनान्तराण्यपि सन्ति दिङ्मात्रं तूच्यते।श्रीपं कुलं तस्मै श्रीपाये