________________
१ पा. ९ आ. शब्दकौस्तुभः ।
१६७ नर्थकत्वादेवाग्रहणे सिद्धे किं तन्निवृत्त्यर्थेनाङ्गग्रहणेनेति दिक् । सूत्रस्योदाहरणान्तराण्याह वार्तिककारः । प्रयोजनं सर्वनामाव्ययसंज्ञायाम् । अन्वर्थसंज्ञयाक्षिप्तः संज्ञी सवादिभिर्विशिष्यतइति फलितोर्थः । उपपदविधौ भयाब्यादिग्रहणम् । भयञ्च आन्यादयश्चोत द्वन्द्वः । तेन खच्प्रकरणे मेघर्ति भयेषु कृत्र इति सूत्रे वाक्यं भित्वा उपपदेन मेघर्ती विशेष्यते भयेन तूपपदम् । यदि तु भयाव्यशब्दयोर्द्वन्दं कृ. त्वा आदिशन्देन बहुव्रीहिः क्रियेत तदा क्षेमप्रियमद्वैरप्युपपदं विशेष्येत सिद्धान्ते तु क्षेमादय उपपदेन विशेष्यन्ते भयङ्करः अभयङ्करः आढ्यकरणं स्वाढ्यंकरणम् । ङीप्प्रतिषेधे स्वस्रादिग्रहणम् । स्वसा परमस्वसा । अपरिमाणबिस्तादिग्रहणं च । प्रतिषेधे प्रयोजनमित्यनुवर्तते । द्विगुना सन्निधापितमुत्तरपदं विस्तादिभिर्विशेष्यतइति भावः । द्विबिस्ता द्विपरमबिस्ता । व्याचिता द्विपरमाचिता । दितिः । दैत्यः आदित्यः । दित्यदित्यादित्यति सूत्रे ऽदितिग्रहणं न कर्चव्यं परमदित्यादिभ्यस्त्वनभिधानान्न भवतीति भावः । रोण्या अण् । रौणीति सूत्रेण चातुर्थिकः रौणः आजकरोणः सैंहकरोणः । तस्य च । तस्य चेति वक्तव्यम् । उक्तानां वक्ष्यमाणानां च सर्वेपामयं शेषः । तथा चेह सूत्रे स्वरूपमित्यनुवर्ततइति फलितोर्थः । ननु व्यपदशिवद्भावेन रौण इति सिद्धामीत चेन्न । व्यपदेशिवद्भावो ऽप्रातिपदिकेनेति निषेधादिति भाष्यकाराः। यद्यपि रोणीशब्दो न प्रातिपदिकं तथाप्यप्रातिपदिकनेत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणास्त्रीप्रत्ययान्तैरपि व्यपदेशिवद्भावो नास्तीति भावः । यथाकथश्चित्वातिपदिकग्रहणे लिङ्गविशिष्टग्रहणमिति हि ङयापसू