SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुमः । [१ . वार्तिकम् अलैवानकैनेति । अत एव संघातेनार्थवतैव । तेना स्त्रिया इतीयङ् इहैव भवति स्त्रियौ परमस्त्रियौ, नेह शस्त्र्यौ शस्त्र्यः । तथा इन्हन्पूषार्यम्णांशी, सौचेत्यत्र हन् इत्यत्र सं. घातग्रहणे प्लीहन्ग्रहणं न तेन प्लीहानावित्यादौ सौ चेति नियमाप्रवृत्तेः दीर्घः सिद्धयति । उदस्थास्तम्भोरित्यत्र वापदान्तस्येत्यतः पदग्रहणानुवृत्तिपक्षेप्युदेव विशेष्यः । अननुवृत्तौ तु न का चित् क्षतिः । उभयथाप्यनर्थकस्याग्रहणानेह गर्मुत्स्थास्यति गर्मुत्सुवर्णतणयोः । ननु शस्त्र्यो प्लीहानावित्यत्र प्राप्तिरेक नास्ति पदाङ्गाधिकारे तस्य तदुत्तरपदस्यचेति वचनान हीदन्तमापि तदुत्तरमिति चेत् । सत्यम् । पदाङ्गाधिकारइति वचनस: त्वे तथैव किन्त्वेतदूषितं भाष्ये सौत्रेण तदन्तविधिनैव गतार्थत्वात् । अत एव परमश्चासावतिमहाश्चोत विग्रहे परमातिमहानिति सिद्धयति वचनाश्रयणे तु नैतत्सिद्धयेत् । अतिमहच्छब्दस्य महदुत्तरपदत्वेप्यनङ्गत्वात् । परमविशिष्टस्याङ्गत्वपि महदुत्तरपदत्वाभावात् । सौत्रेण तदन्तविधिना तु सान्तमहत इति दीर्घमुगिल्लक्षणो नुमागम चेह सिद्धयति । न चेह ग्रहणवतेति निषेधः शश्यः । समासमत्ययविधावित्यनेन सह समानविषयः स इत्युक्तत्वात् । एतेन वातजन्मजरसः परं शुचि ब्रह्मणः पदमुपैतु मिच्छतामिति भारविप्रयोगो व्याख्यातः । अलैवेत्यस्यापवादः पठ्यते भाष्ये, अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति । अन् , राज्ञेत्यर्थवता साम्नेत्यनर्थकेन । इन्, दण्डीत्यर्थवता वाग्मीत्यनर्थकेन।अस्, सुपया इत्यर्थवता सुस्रोतेत्यर्थकेनामन् ,सुशर्मेत्यर्थवता सुप्रथिमेत्यनर्थकेन । तञ्चेण:पीध्वमिति सूत्रेङ्गग्रहणनार्थवद्रहणपरिभाषाया अनित्यत्वज्ञापनासिद्धम् । परिवेविषीध्वमित्यत्र हि पीध्वंशब्दस्या
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy