________________
१ पा. ९ आ. शब्दकौस्तुभः । म्बुध्यन्तमुदाहर्त्तव्यं कृष्णंपरमश्रित इति, एतद्धि प्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयतइति । स्यादेतत् । सिद्धान्ते श्रितादीनां विशेष्यत्वेपि तत्र सुबन्तत्वं बाधितम् । न चात एवान्वयानुपपत्त्या श्रितादिशब्दानां तत्प्रकृति के लक्षणेति वाच्यम् । सम्बुध्यन्तएव मुख्यार्थपुरस्कारेणावकाशलाभात् । तथा च कृष्णश्रितमित्यादि न सिद्धयेदिति । उच्यते । समासतद्धितप्रकरणे सर्वत्र श्रितादीनां नडादीनां च तत्तत्प्रकृति के लक्षणैव खट्वाक्षेपे नदीभिश्चेत्यादावभेदस्य बाधात् । न हि तत्र सम्बुद्धयन्तता सम्भवति । पूर्वकालैकत्यादौ सम्बुद्धयन्ततासम्भवेप्येकविभक्तावित्यादिसौत्रनिर्देशो न सिध्येत् । तस्मासामान्यापेक्षज्ञापकबलेनैकरूप्याय सर्वत्र तत्तत्प्रकृतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयट हरदत्तकृतं भक्त्वा व्याख्यानमनादेयमित्यवधेयम् । अस्यापवादमाह । उगिद्वर्णग्रहणवजैमिति । उगिता वर्णेन च प्रातिपदिकं विशष्यतइति फलिसोर्थः । महान्तमतिकान्तातिमहती उपसर्जनत्वाद्गौरादिलक्षणस्य ङीषो ऽभावे उगिदन्तत्वान्डीप् । बृहन्महतो!रादित्वं नास्तीत्यपि के चित् । युक्तं चैतत् । महतेसौभगायेत्यादौ विभक्तेरुदात्तत्वसिद्धये शतुरनुम इति सूत्रे नद्य जाादात्तत्वे बृहन्महतोरुपसंख्यानमिति वार्तिकस्यारभ्यमाणत्वान्डीपोप्युदातत्वसिद्धेः । अत इञ् । दाक्षिः । न चेह सामर्थ्यात्तदन्तविघिः । अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात् । न चैवमिवो त्रित्वं व्यर्थ स्यादिति वाच्यम् । बाहादिभ्यश्चेत्यत्र यथायथं वृद्धयायुदात्ताभ्यां चरितार्थत्वात् । नन्वेवमस्यौपगविरित्यादावेव स्यान्न तु दाक्षिरिति । अकारस्येहानर्थकखादिति चेन्न । वर्णग्रहणे अर्थवत्परिभाषाया अप्रत्तेः । तथा चैतत्सूत्रशेषे