________________
शब्दकौस्तुभः ।
इत्यत्राङनाङगेरेकादेशस्यानाङिति प्रतिषेधे प्राप्ते प्रतिप्रसवायेदमिति वाच्यम् । अनाङित्यस्य पर्य्युदासाश्रयणेनाङनाङोरेकादेशस्यादिवद्भावादनाङ्ग्रहणेन ग्रहणात् । प्रसज्यप्रतिषेधे ह्यसमर्थसमासो वाक्यभेदश्च स्यात् । भाष्येपि प्रतिषिद्धार्थमेतदित्युक्तिरभ्युच्चयमात्रम् । कथमन्यथानुपदमेवादो भवदित्यत्रातिप्रसङ्गमाशङ्कय प्रतिपदोक्तस्यैवौकारस्य ग्रहणमिति समादधीत । तस्मादिदं सूत्रं विनापि सर्व लक्ष्यं निर्व्यूढमेवेति चेत् । अत्रोच्यते । आहो उताहोइत्यादयो न निपातसमुदायाः । किन्त्वखण्डा एव । एतच्च एतत्सूत्रबलात्प्रतिपदोक्तस्याकारस्य ग्रहणामिति भाष्यवलाच्चाध्यवसीयते । तेन आम् आहो देवदत्तेत्यत्रामएकान्तरमामन्त्रितमिति निघातप्रतिषेधः सिद्धः । अत एव पदकारैरपि ओपुवर्त्तमरुत इत्यादौओइत्याद्यैकपद्येनैव पठ्यते। तदेवं सूत्रकार भाष्यकारपदकाराणां संवाद एवेति स्थिते निपातसमुदाय एवायमित्याश्रित्यैतत्सूत्रं प्रत्याचक्षाणाः परास्ताः । स्यादेतत् । अनदोदः समभवदित्यत्रातिप्रसङ्गः । च्यन्तस्य निपातत्वात् । ऊर्यादिचिवडाचश्चति गतिसंज्ञाविधानेपि प्राग्रीश्वरान्निपाता इत्यस्याधिकारात् । न च लक्षणप्रतिपदोक्तपरिभाषया लाक्षणिक ओकारो व्यावर्त्यतइति वाच्यम् । वर्णग्रहणेषूक्तपरिभाषाया अप्रवृत्तेः । अन्यथैचोयवायाव इत्यपि हरये इत्यादौ न प्रवर्त्तेत । चक्रे चक्रिरइत्यादौ प्रतिपदोक्ते चारितार्थ्यात् । वर्णस्य प्राधान्ये मास्तु परिभाषा विशेषणत्वे तु स्यादेवेति चेन्न । अविशेषेणाप्यप्रवृत्तेः सूपपादत्वात् । तथा च षष्ठे वक्ष्यामः । अभ्युपेत्यापि ब्रूमः । अगौगौः समभवद्गोभवदित्यादौ गमेडइत्योकारस्य प्रतिपदोक्ततयातिप्रसङ्गः स्यादेव । नन्विह गौणमुख्यन्यायेन स - माधानमस्तु । तथाहि । संघीभवन्ति ब्राह्मणाः, त्वद्भवति देव
1
१ पा. ५ आ.
१७१