________________
१७२
शब्दकौस्तुभः । [१ अ. दत्तः, मद्भवसि त्वं, त्वद्भवाम्यहमित्यादौ वचनपुरुषव्यवस्थानुरोधेन च्चिप्रत्ययस्थले सर्वत्र प्रकृतेरेव कर्तृत्वमिति सिद्धान्तस्थितिः । तथा च प्रकृतावारोपेण वर्तमानाद्विकृतिवाचका. च्छब्दाच्च्चेरुत्पत्तौ च्चिप्रत्ययं प्रति प्रकृतिभूतस्य वाहीकादिवृत्ते!शब्दस्य गौणार्थता स्पष्टैच । अत एवामहान् महान् भूतो महद्भूतश्चन्द्रमा इत्यादावान्महत इत्यावं न प्रवर्त्ततइति चेन्न । - शान्तदाान्तिकयोर्वैषम्ात् । तथाहि । विशिष्टरूपोपादाने गौणमुख्यन्यायः । तस्यार्थवद्हणे नानर्थकस्येत्येतत्परिभाषामूलकत्वात् । अर्थोपस्थितेश्च रूपविशेषग्रहसापेक्षत्वात् । तथा चान्मइत इति विशिष्टरूपग्रहणेन विधीयमानमात्वं गौणे न भवतीति युक्तम् । इह त्वोदितिवर्णपुरस्कारेण विधीयमाना प्रगृह्यसंज्ञा कथं गौणार्यवृत्तेर्न भवेत् । निपातसंज्ञा तु तस्यापि मुख्यैव । अत एव संज्ञाश्वशुरस्यापत्यं श्वाशुरिरित्यत्र राजश्वशुराद्यन्न प्रवर्तते । अत इञ् तु प्रवर्ततएव । अन्यथा इबो यतश्च तुल्ययोगक्षेमतैव स्यात् । अत एव गौर्वाहीको ब्रूते गां वाहीकं पा. ठयेत्यादौ वृद्धयात्वे स्त एव । तयोरपि वर्णाश्रयत्वात्।गोत इति तपरत्वमोकारान्तोपलक्षणार्थमिति वक्ष्यमाणत्वात् । तथा चौ. तोमिति सूत्रे भाष्यद्वक्ष्यति । गामित्यत्र परापि वृद्धिनिरवकाशेनात्वेन बाध्यतइति । तत्रैव कैयटोपि वक्ष्यति, ओत इति सूत्रं पाठ्यम् । ओकारान्तोपलक्षणतया वा गोतइत्येतद्व्याख्येयमिति । वृत्त्यादिग्रन्थेष्वप्येवमेव स्थितम् । यत्तु वदन्ति । मुख्यएव स्वार्थे सास्नादिमति गोशब्दो वृद्धयात्वे लभते ततो वाहीकादिशब्दान्तरसन्निधानागौणताप्रतीतिः । गोभवदित्यत्र तु गौणार्थतां विना विरेव दुर्लभ इति वैषम्यम् । तस्मात् पदकार्येष्वयं न्यायो न प्रातिपदिककार्येष्विति स्थितमिति । तच्चि