________________
शब्दकौस्तुभः ।
[१ अ० रहेण दकारप्रश्लेषादानजत्वात् । तथाहि । उदित्येषा उकारस्य संज्ञा तया प्रत्यायित उकारस्तु विधीयते । तथा च सं. ज्ञायास्तित्त्वेपि संझिनः किमायातम् । वस्तुतस्तु संज्ञापि तान्ता न तु तित्। तपरइति हि सूत्रितं न तु तिदिति । यदि हि संज्ञावत् संझ्यपि तान्त एव तर्हि अतो भिस ऐम् भवद्भिरित्यादावेव स्यान तु वृक्षरित्यादौ । तपरस्तत्कालस्येति सूत्रं च व्यर्थमेव स्यात्स्वं रूपं शब्दस्येत्यनेनैव गतार्थत्वात् । न च ङमुडादाविव संज्ञायां कृतं लिङ्ग संज्ञिनि लब्धुं शक्यम् । तद्वदिह सामर्थ्यविरहात् । एवञ्च तित्स्वरितमिति सूत्रे भाष्यवार्तिकग्रन्थः सर्वोप्यभ्युपेत्यवाद एव । स्थाध्वोरिच्चेति सूत्रे इच्चकस्य तकारत्वमित्यादिग्रन्थोप्येवमेव तस्मानायं तकारःकिन्तर्हि दकार इति इहत्यभाष्यग्रन्थो यथाश्रुत एव साधुरिति सहृदयैराकलनीयम् । अ. यमेव च ग्रन्थोभ्युपेत्त्यवादरूपतामुत्तरग्रन्थानां गमयति । एतेन
औत्, इटोदित्यादिष्वपि विधेयस्य तपरत्वाभावो व्याख्यातः । तित्त्वं तु दूरापास्तमिति दिक् । इह अकारादयो वर्णाः सांशाः इष्यन्ते । यदाह तस्यादित उदात्तमर्द्ध स्वं, पूर्वस्याईस्यादुत्तरस्येदुताविति । वार्तिककारोप्याह । ऐचोश्चोत्तरभूयस्त्वादिति । तत्र सन्ति के चिदंशाः स्वतन्त्रवर्णातर सदृशाः। यथा। आकारादिष्वकारस्य सदृशौ भागौ । एक्षु पूर्वभागो ऽकार उत्तर इवोवर्णयोः । ऋकारे उभयतोज्भक्तरर्द्धमात्रा मध्ये रेफस्य सदृशोर्द्धमात्राभागः लकारेप्युभयतोजभक्तिः मध्ये स्वतन्त्रलकरसदृशो भागः तत्र स्वतन्त्रतत्तद्वर्णग्रहणेन विधीयमानं कार्य तत्तत्सदृशेष्वंशेषु न प्रवर्त्तते । तत्सदृशा हीमे न तु तएव नरसिंहवज्जात्यन्तराकान्तत्वात् । गोनौग्रहणं चात्र ज्ञापकम् । यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्त कार्य प्रवर्तयेयुस्तर्हि गोव्यचोड