________________
१ पा २ आ.
शब्दकौस्तुभः ।
६.३
संख्यापरिमाणाश्वादेर्यदिति नौद्व्यचष्ठन्निति च सूत्रद्वये द्व्यज्य - हणेनैव गतार्थत्वाद्गोशब्दं नौशब्दं च नोपाददीत । तेनाग्ने इन्द्र, वायो उदकमित्यत्र सवर्णदीर्घो न । न चैचोयवायाव इत्यनेन तस्य बाधोस्त्विति वाच्यम् । अयादयो हि येननामा सिन्यायेन मध्येपवादन्यायेन वा यण एव बाधकतया अग्न आयाहीत्यादौ चरितार्था अग्ने इन्द्रमित्यादौ परेण दीर्घेण बाध्येरन् । अन्तरङ्गोपि दीर्घावयवमात्रापेक्षत्वात् । तथाग्नएतीति एङः पदान्तादित्येतन्न | आलूय प्रमायेत्यत्र तुड्न मालाभिरित्यत्र ऐस्न यातेत्यादावतोलोपो न वाचा तरति वाचो निमित्तमित्यत्र द्व्यज्लक्षणौ ठन्यतौ नेति दिक् । नुविधिलादेश विनामेषु तु प्रतिविधेयम्। तथाहि द्विहल्ग्रहणमपनीय तस्मान्नुडित्येव सूत्रं कर्त्तव्यम् । नचैवमानृधतुरित्यत्रेव आटतुरित्यादावपि नुमसङ्गः अश्नोतेश्चेत्यस्य नियमार्थत्वात् । नियमश्च सामान्यापेक्षः । अकारोपधस्य यदि भवत्यश्नोतेरेव न तु अटत्यादेरिति । यदि त्वश्नातिमात्रं निवर्त्यस्यात्तार्ह नाश्न इत्येव ब्रूयात् रोल इत्यत्रः स्वतंत्र स्वतन्त्रसाधारणी जातिरनुवाद्ये विधेये च विवक्षिता । एकदेशस्य च पृथनिष्कर्षायोगात्तद्वारा ऋकारस्यैव ऌकारादेशः फलति । स्वतन्त्र वर्णवृत्तिजातेर्नायं निर्देशः किं तु अंशांशिसाधारण्या एवेत्यत्र ज्ञापकं तु लुटि च क्लपस्तासि च क्लूपः ऋदुपधाच्चाक्लृपिचृतेरिति निर्देशाः । यद्वा । कृप उः रः ल इति छेदः कृप इति लुप्तषष्ठीकं पदम् । तच्च तंत्रेणावृत्या वा योज्यम् । कृपर्यो रेफस्तस्य लः कृपेर्ऋकारस्यावयवो यो रेफः रेफसदृश इति यावत्, तस्य च लकार इति तेन चलीक्लूप्यतइत्यादि सिद्धम् । ईदृशपद विभागप्रदर्शनपर भाष्य देव कृपेरिति सूत्रपाठस्य प्रामादिकत्वं निर्णीयते । तदेवं नुविधिला