________________
[ १ अ०
१३६
शब्दकौस्तुभः । दीपक इति रूपं शुद्धस्य तु दीध्यक इति व्युत्पादितत्वात्सिद्धान्तविरोधादुरेक्ष्यम् । तत्राहि वर्णग्रहणं लुप्तेपि वर्णे यथा स्यादित्येवमर्थमित्याशंक्य स्थानिवद्भावेन सिद्धरन्तरंगत्वाणिलोपात्माग्यीवर्णयोरिति लोपसिद्धेश्च वर्गग्रहणं प्रत्याख्यातम् । ननु व. र्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुमृत्य ब्रूम इति चेत्, सत्यम् । तथापि यथोत्तरं मुनीनां प्रामाण्यापाशुद्धिस्तदवस्थेवेनि दिक् । स्यादेतत् । दीधीवेव्योङित्वाङिति चेति सूत्रेणैव निषेधोस्तु किमिह दीधीवेवीग्रहणेन । मैवम् । इग्लक्षणयोहि स निषेध इत्युक्तम् । न चाचो णितीति वृद्धिरिग्लक्षणा । किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि । न च कार्या निमित्ततयाधीयते । च्यवते प्लवते इत्यादावपि गुणनिषेधापत्तेः । अत्र च लिङ्गं कुटादिमध्ये कूङ् शब्द इत्यस्य पाठः स्थंडिलाछयितरीति निर्देशश्च । यत्तु प्रकृतसूत्रे दीधीवेव्योर्ग्रहणमेवैतत्परिभाषाज्ञापकामिति । तन्न । अनिग्लक्षणवृद्धिनिषेधेन चरितार्थत्वात् । भाष्यमतएतत्सूत्रस्य प्रत्याख्यास्यमानतयोक्तपरिभाषायां लिङ्गान्तरस्यैवानुसतव्यत्वाच्च । स्यादेतत् । यदि कार्या निमित्तत्वेन नाश्रीयते कथं तर्हि ऊर्णनविषतीत्यत्र द्विवचनेचीति नुशब्दस्य द्वित्वं, इषइत्यस्य अजादित्वेपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया निमित्तत्वासम्भवातः । सन्यङोरिति षष्ठीमाश्रित्य सन्नन्तस्य द्वित्वविधानात् । अन्यथा प्रतीषिपतीति सनो द्वित्वं न स्यात् । यत्तु सन्यङोरिति सप्तम्याश्रयणेपि सन्यङोरकारोच्चारणसामाद् द्वित्वं भविष्यतीति । तन्न । दित्सधित्सादिभ्यो यत्पत्तिप्रतिबन्धेनाचो यदिति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात् । अन्यथा अरिरिषतीत्याद्यसिद्धेश्च । यदि हि तत्रापि स्थानिव