________________
१ पो. ४ आ. शब्दकौस्तुभः ।
दीधीवेवीटाम् ॥ दीधीवेव्योरिटश्च गुणवृद्धी न स्तः। आदीध्यनम् आधीध्यकः । आवेव्यनम् आवेव्यकः । अकणिषम् अरणिषम् । कणिता वो रणिताश्वः। इहामं प्रति सिजन्तमङ्गम्। तिपो डादेशं प्रति तु कणिद्रणिदिति तान्तमंगं तस्यामंडादेशं च साधातुकं निमित्तीकृत्य लघूपधगुणामाप्नोनेन निषिध्यते । वृद्धिस्त्विटो न सम्भवत्येव । लुडन्तता स्फोटयितुं प इत्यस्य प्रयोगः । न हि तृजन्ते तृन्नन्ते वेटो गुणप्राप्तिः प्रत्ययावयवत्वात्तस्य । अर्थ दीङ् क्षये, धीङ् अनादरे, वेञ् तन्तुसन्ताने, वी गत्यादिष्वेतेषामिह ग्रहणं कुतो नेति चेत् । न । अवयवप्रसिद्धयपेक्षया समुदायप्रसिद्धेबलवत्त्वात् । किञ्च चतुर्णा ग्रहणेभिप्रेतेऽसन्देहाथ दी. वेधीवीटामित्येव ब्रूयात् । इद् चात्रागम एव गृह्यते न इट् ग. ताविति धातुः । ननु धातुसाहचर्यादातुरेव गृह्यताम् । मैवम् । साहचर्यस्य सर्वत्रानियामकत्वात् । अन्यथा द्विस्त्रिश्चतुरिति कृ. वोर्थइति सूत्रे कृत्वोर्थग्रहणं न कुर्यात् । द्विस्तिरिति सुजन्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहणसम्भवात् । अतएवागमापेक्षया प्रकृतेरभ्यहितत्वाद्दीधीङः पूर्वनिपातः सूत्रे कृतः इ. टोपि धातुत्वे तु प्रकृतित्वाविशेषेप्यल्पान्तरत्वात्तस्यैव पूर्वनिपातः स्यात् । अत्रेदमवधेयम् । दीध्यको वेव्यक इति यदुदाहृतं तद्दीधीवेवीभ्यां शुद्धाभ्यामेव बुलि रूपं न तु ण्यन्ताभ्यामपि । यत्तु यीवर्णयोरिति सूत्रे हरदत्तेनोक्तम् , वर्णशब्दो वर्णविस्तार इतिधातोः पचाद्यजन्तः श्रयमाण एव । वर्णे यथा स्याल्लुसे मा भूदित्येवमर्थः तेन ण्यन्ताभ्यां ण्वाल णिलोपस्य पूर्वविधौ स्थानिवत्वेपि श्रूयमाणत्वाभावाल्लोपाभावे यणि कृने दीध्यको वेव्यक इत्येव शुद्धेन समानाकारं रूपं भवतीति । तदेतन्नाग्लोपिशास्तृदितामित्येतस्मिन्सूत्रे भाष्यकारैरेव ण्यन्तस्य