________________
१३४
शब्दकौस्तुमः । [१ अ० न वृद्धिः । तथा चिनुयुरित्यत्र न गुणः क्सस्याचीत्यतोचीत्यनुवांजादौ जुसि गुणविधानात् । मिगुणो जुसि चेत्यकारं पश्लिष्याच्चासावुम् चेति कर्मधारयाश्रयणेनाजादाबुसि गुणविधानाश्रयणे तु चक्रुर्जन्हुरित्यादावतिप्रसङ्गः । गुणेति लुप्तविभक्तिकमु जुसीति च छेदः । उकारादौ जुसीति चार्थः । जुसि गुणे यासुट्नतिषेध इति वार्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमि. ति तावातिककारस्य हृदयम् । भाष्यकारमते तु सार्वधातुकमपिदितिसूत्रे ऽपिदिति योग विभज्य डिदिति चानुवावृत्तिञ्चाश्रित्य ङिच्च पिन भवतीति पिच्च ङिन्न भवतीति वाक्यार्थद्वयं वर्ण्यते । इदञ्च हल: श्न इति सूत्रे भाष्ये स्पष्टम् । तेन बूतादित्यत्र ब्रुव ईण्न तातङ औपदेशिकङित्वेनान्तरङ्गेणातिदेशिकस्य बहिरङ्गस्य पित्वस्य बाधात् । अतिदिष्टादुपदिष्टं बलीय इति न्यायात् । अचिनोदित्यादौ त्वौपदेशिकेन तिबादीनां पित्वेन लाश्रयमातिदेशिकं डित्वम्बाध्यते । तेन गुणादिसिद्धिः । अस्मिंश्च पक्षे यासुटो ङित्ववचनं न ज्ञापकं किन्तु मृज्यादित्यादावमाप्तङित्वविधायकम् । तेन च पित्वस्य चिनोतीत्यादौ सावकाशस्य बाधो ऽतः स्तुयादित्यादौ पिति हलीति विधीयमाना वृद्धिने प्रवर्तते । चिनुयुरिति तु प्राग्वदेव समर्थनीयम् । पूर्वोदाहृतवार्तिकमते तु ब्रूतादित्यत्रे प्राप्नोति । आगमशासनमनित्यमिति तु कथं चि. समाधेयः। वस्तुतस्तु हलःश्नः शानज्झाविति शानचः शित्करणेनक चिदनुबन्धकार्येप्यनल्विधाविति निषेधः प्रवर्त्ततइति ज्ञाप्यते । तेन ब्रूतादित्यादौ न कश्चिद्दोष इति । अत एव भाष्यमते भविषीष्टेत्यत्र ङित्वन्न करिष्यमाणेत्यत्रोगिल्लक्षणटिल्लक्षणव डीन्नेति दिक् ॥