SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३६४ शब्दकौस्तुभः। [१ अ. कत्वं मा भूत् । अतइ,इदमइश, आर्द्धधातुकस्येड्, भुवोवुक, अमसम्बुद्धौ । इह हि सर्वत्रोपदेशइति वचनात्सूत्रान्तर्गतेध्वेव इनादिशब्देष्वित्संज्ञा प्रवर्त्तते । लोपस्तु तत्रानुपूव्याहाधितोपि पदस्वरूपपर्यालोचनायां प्रवृत्तः । ततः स्वरूपमित्ति संज्ञावलात् ज्ञायमाना पदार्थोपस्थितिरनुबन्धविनिमुक्तस्यैव भवति । तथा चोपस्थापकस्याणत्वात्सवर्णग्रहणं प्राप्तं निपिंध्यतइत्युचितम् । अत एव चतुर्दशसूत्र्यामुच्चारणार्थस्याकारस्येवेत्संज्ञाकानामपि णकारादीनां लण्मध्याकारस्य च पदपालोचनायामेव लोपश्च बलवत्तर इति न्यायेनापहारादितरान्तर्भावणैव संज्ञा प्रवर्त्ततइति सिद्धान्तः । इदं चालोन्त्यात्पूर्वउपधेति सूत्रे तस्मिन्नितिनिर्दिष्टइत्यत्र च कैयटग्रन्थे स्पष्टम् । इद् अक इकोचीत्यादौ सानुबन्धाद्विभक्तिस्तु प्राथमिकबोधे विशिष्टस्य विषयतया तस्यैवार्थवत्वमादाय । अन्यो हि पश्चादुपतिष्ठते न तु प्रयुज्यतइति कथं ततो विभक्तिः क्रियताम् । इत्संज्ञाकार्य त्वानर्थक्यात्तदङ्गेष्विति न्यायेन प्रत्याव्ये प्रवर्तते । विभक्तयर्थान्वयोप्येवम् । दृष्टं हि ङमुडादावुपस्थापके कृतस्य लिङ्गस्य तद्बोध्ये फलप्रवर्तकत्वमिति दि. क । स्यादेतत् । उक्तरीत्या उदोष्ठयपूर्वस्येति सूत्रे उच्छब्द प्रवृत्ता इत्संज्ञा लक्ष्ये तित्स्वरं प्रवर्तयेदिति चेत् । सत्यम् । अत एवैतत्समाधानाय पूर्वाचार्यैः पराक्रान्तामति गृहाण । कथं तहि एओसूत्रे तदुषणाय प्रवृत्तमिति चेत् । तत्कालाबधारणेन कृतार्थस्य तकारस्यानुबन्धान्तरवैषम्यादिति गृहाण। अत एव वैयाकरण इत्यत्र ऐचश्चित्स्वरो न भवति । पचस्वति शपोप्येवम् । नय्वाभ्यामिति सूत्रे अचः परस्य द्वे इत्यत्र च ऐचोश्चकारस्य प्रत्याहारे उपक्षयात् । यद्वा । इञिशादिष्वपि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy