________________
३ पा. २ आ. शब्दकौस्तुभः ।
४९७ श्व ण्यन्तेभ्यः परस्मैपदं स्यात् । निगारयति । आशयति । भोजयति । चलयति । चोपयति । कम्पयति । सकर्मकार्थोऽचित्तवस्कर्तृकार्थश्चायमारम्भः । आदेः प्रतिषेधो वक्तव्यइति काशिका। भाष्यकारस्तु गतिबुद्धीति सूत्रे इममर्थ वक्ष्यति । आदयते देवदत्तेन । गतिबुद्धीत्यादिना णौ कर्तुः कर्मसंज्ञा प्राप्ता आदिखायोः प्रतिषेध इति वचनान्न भवति । कथं तादयत्वनं बटुनेति । अभिप्राये भविष्यति । कञभिमाये प्राप्तस्य निगरगचलनेत्यस्य ह्ययं निषेधो न तु शेषात्कर्त्तरीत्यस्य । कथं तहि श्रीहर्षः, इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भचन्मुखस्पृशीति । न च नायं भक्षणार्थः, न पीयतां नाम चकोरजिव्हया कथं चिदेतन्मुखचन्द्रचन्द्रिकेति पूर्वार्धानुरोधेन पानार्थत्वादिति वाच्यम् । पानस्यापि भक्षणविशेषात्मकत्त्वात् । सामान्यग्रहेण विशेषस्यापि ग्राह्यत्त्वात् । अन्यथेहैव सूत्रे चोपयतीत्युदाहरणासङ्गतेः । चुपेर्मन्दगत्यर्थकत्वात् । इमामित्यस्याकर्मकत्त्वासङ्गतिप्रसङ्गाच्च । गत्यादिसूत्रेण ह्यस्य कर्मसंज्ञा सा च प्रत्यवसानार्थता विना दुरुपपादेति । अत एव नपादमीति सूत्रे पाग्रहणं धेट उपसङ्ख्यानञ्च सङ्गच्छते। अन्यथा पाधेटोरप्याचमिवत्पानार्थत्वेन निषेधो व्यर्थः स्यात् । न चैवं बुध. युधादित्सूत्रे द्रवतिग्रहणं व्यर्थ चलनविशेषवाचकस्यापि चलनवाचकतानपायादिति वाच्यम् । चलनत्वव्याप्याया अखण्डाया एव जाते. प्रतिनिमित्तताया उक्तत्वात् । पानन्तुद्रवद्रव्यस्य गलादयः करणम् । तत्र द्रवद्रव्यांशस्याधःकरणे कर्मीभूतस्याधिकस्य भानेपि भक्षयतेरर्थस्य भानं निर्विवादम् । यथा मन्दगतौ भासमानायां गर्भानम् । अधिकं प्रविष्टं न तु तद्धानिरिति न्यायात् । न च पानत्वमप्यखण्डस्यन्दन