SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४९८ शब्दकौस्तुभः । १ अ] • त्ववदिति वाच्यम् । तत्साधकानिरुक्तः । दृष्टान्ते तु कार्यतावच्छेदकतया तत्सिद्धरिति । उच्यते । आचामयेति लोडन्तं छित्वा' किं नाचामयेरिति व्याख्येयम् । से इति तु सम्बोधनं दमयन्त्याः । तथाहि । अस्य स्त्री ई लक्ष्मीः तया सह वतैमाना सेः तस्याः सम्बोधनं से । सलक्ष्मीके इत्यर्थः॥ अणावकर्मकाच्चित्तवत्कर्टकात् ॥ णे:पूर्वमकर्मकाच्चित्तवत्कर्तृकाण्ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं शाययति गोपी । अणौ किम् । आरोहयमाणं प्रयुक्त आरोहयते । पेरणाविति सूत्रे उदाहरणत्वन योकर्मको निर्णीतस्तस्माद द्वितीये ‘णौ मा भूत्। स हि णावकर्मकः निवृत्तप्रेषणाध्यारोपितप्रेषणयोरुभयोरपि न्यग्भवतीत्यर्थे पर्यवसानस्योक्तत्वात् । अकर्मकात्किस। कटं कुर्वाणं प्रयुक्ते कारयते । चित्तवत्कर्तृकात्किम् । बीहीन शोषयते । अत्र केचित् । चुरादिण्यन्ताद्धेतुमण्णावणावित्यस्य प्रत्युदाहरणमाहुः । तत्तु भाष्यादिविरुद्धम् । तथाहि । घुधादिसूत्रादिह रित्यनुवर्तते । बुधादिभ्यश्च हेतुमण्णिरेव सम्भवतीति निषेधोपि प्रत्यासत्तेस्तस्यैव न्याय्यः । तेन चुरादि- . "ण्यन्तादपि हेतुमण्णौ भवत्येवेदं परस्मैपदमिति भाष्ये स्थितम् । 'यतु रूपयन्तं प्रयोजयति रूपयतइति केन चित्मत्युदाहृतं त. उचुरादिण्यन्तादेतुमण्णिचं विधाय तस्य च सौकर्यातिशयात्म* योजकन्यापाराविवक्षायां प्रयोज्यव्यापारमावस्या अकर्मकसामाश्रित्य ततो द्वितीये हेतुमण्णिचि बोदव्यम् । अत एव प्रयोजयतीत्याह । इह हि युजिना णिचा च प्रयुक्तिद्वयं वदता हेतुमण्णिद्वयं सूच्यते । अन्यथा प्रयुक्तइत्येवादर्शयिष्यत् । " एवञ्च चेतयमानं प्रयुक्ते चेतयतइति केषां चित्प्रत्युदाहरणं यत्तिकृता दूषित तत्समर्थितं भवति । स्वार्थण्यन्तादेकेस्मिन्ने
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy