SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४५० शब्दकौस्तुभः । [१ अ० गित्त्वान्नुम् । भवान् । लणसूत्रे अकारस्येत्त्वाद्रप्रत्याहारसिद्धिः। - आचारेवगल्भक्लीबहोढेभ्य इति वार्तिके ऽवगल्भादरनुनासिकखेनानुदात्तेत्त्वात्तङ् । अवगल्भतइत्यादि । उपदेशे इति किम् । अभ्रआँअपः । आङोनुनासिकश्छन्दसीत्यनुनासिकः । नासौ शास्त्रे पठितः। नन्वेवं उत्र ऊँ इत्यत्रातिप्रसङ्गः। विधानसामर्थ्यानेति तु प्रकृतोपि सुल्यम् । अथानुबन्धा अनेकान्ता इति पक्षे अभूआँ अटित इत्यादावादितश्चेतीनिषेधार्थमित्संज्ञा किन्न स्यादिति चेन्न । एवमपि आङ इदिति वक्तव्ये अनुनासिकविधानस्य वैयापत्तेः । एतेन दघि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः किप्यल्लोपयलोपयोईस्वत्वे चाणोप्रगृह्यस्येत्यनुनासिकः । अत्रेदितोनुम्धातोरिति नुम् स्यात् । दधि मचित्यादिषु प्रातिपदिकेषु भवतिपचतीत्यादिषु च इत्कार्य लोप एव स्यात् । तस्मादुपदेशग्रहणं कर्त्तव्यमिति परास्तम् । अणोप्रगृह्य इदिति वक्तव्ये ऽनुनासिकविधानसामादित्संज्ञाविरहोपपत्तेः । सत्यम् । उत्तरार्थमुपदेशग्रहणम् । आजति किम् । मनिन्प्रत्यये मकारस्य मा भूत् । सत्यां हि तस्यामन्येभ्योपि दृश्यन्तइति हलन्तेष्वंत्यादचः परः स्यात् । अनुनासिकः किम् । चिरिणोति जिरिणोति ॥ .. हलन्त्यम् ॥ उपदेशेन्त्यं हलित्स्यात् । यद्यपि सर्वो हल् तन्तमवधिं प्रत्यन्त्यो भवति तथापि धातुपातिपदिकत्वाद्युपाधिपरिच्छिन्नसमुदायं प्रत्यन्त्य इह गृह्यते । अन्त्यग्रहणसामर्थ्यात् । शीङ् स्वमे ङित्त्वात्तङ् । शेते । उपदेशे किम् । अग्निचिव । श्रोत्रियञ्छन्दोधीते क्षेत्रियच् परक्षेत्रे चिकित्स्य इत्यादौ तु वाक्यार्थे पदवचनमिति पक्षे ऽविद्यमानप्रकृतिप्रत्ययविभागे-प्युपदेशेन्त्यत्त्वाद्भवत्येवेत्संज्ञा । सनुत इत्यस्य स्वरादिपाठा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy