SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४९० शब्दकौस्तुभः । १ अ० ] प्रयुक्तं तण्णिचश्चेति सिद्धम् । एतेन स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुतामिति व्याख्यातम् । बन्धुता तं पश्यति तां दर्शयते । यद्वा । बन्धुतां कृताधिपत्यामित्र लोकः पश्यतितां दर्शयते इत्यर्थः । आये बन्धुता अणो कर्त्री । द्वितीये त्वौ सा कर्म । उभयथापि णौ कर्मत्वं निर्वि बादमेवेति दिक् । णेरिति किम् । आरोहतीति निवृत्तप्रेषणान्मा भूत् । न च णौ चेदिति वाक्यशेषे श्रुतत्वाण्णेरेव भविष्य - सीति वाच्यम् । अणावित्यस्यापि श्रुतत्त्वात् । किं चोत्तरार्थमत्रश्यं णरिति वाच्यमेव । तदिहैव स्पष्टार्थमुक्तम् । हेतुमणिज्य - हणार्थ च । भीस्म्योस्तस्यैव सम्भवात् । तेन गणयते गणः स्वयमेवेति सिद्धम् । गणयतिहिं विभज्य भागशोवस्थापने वर्त्तते । तथा च कर्मस्थभावकादस्पान्निवृत्तप्रेषणाद्धेतुमण्णौ पुनः प्रेषणांशत्यागे सत्यात्मनेपदमिष्टम् । णेरिति हेतुमणिचा संभिधानादणावित्यत्रापि तस्यैव ग्रहणाच्चुरादिणौ यत्कर्म तत्कर्तृकाद्धेतुमण्ण्यन्तादपि सिध्यतीति । यन्तु वृत्तिकृता गणयतीत्येव रूपमवस्थाचतुष्टयेप्युदाह्रियते । तत्र सङ्ख्यानि - मित्तस्य परिच्छेदस्य ज्ञानविशेषात्मकतया कर्तृस्थस्य धातुवा - यतामाश्रित्य कर्मवद्भावाप्रवृत्त्या द्वितीयावस्थायां परस्मैपदम्पपादनीयम् । चतुर्थावस्थायां तु परस्मैपदमशुद्धमेव । रणावित्यत्रापि अणावकर्मकादित्यत्रेव हेतुमण्णिच एवं ग्रहणस्य न्यास्यत्वात् । तथैव भाष्ये स्थितत्वाच्च । भागशोवस्थापन परस्वे तु द्वितीयावस्थायामप्यात्मनेपदमिति विशेषः । कर्मवद्भावस्य दुर्वारत्वात् । यकिणौ तु णिश्रन्थीत्यादिनिषेधान्नस्त इति दिक् । णौ चेदिति किम् । निवृत्तमेषणाण्णौ आरोहयन्ति ह - स्तिपका इति तृतीयकक्षायां मा भूत् । असति हि णौ चेद्र
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy